SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३४ [श्रीस्याद्यन्तरत्नाकरे स्वरान्तप्रकरणस्थमकारान्तमेकाक्षरप्रकरणम्] - (६४) 'य' शब्दः। पुं०-वायौ, यशसि, योगे, गती, संयमे च । यातरि त्रिलिङ्गकः । ..(६५) 'र' शब्दः। पुं०-वह्नौ, उने, कामानले च । रामे, वायौ, भूमौ, धने, इन्द्रिये, इन्धने, रोगे चेत्येतेष्वर्थेष्वपि पुंस्त्वमस्येति कस्यचिन्मतत् ॥ (६६) 'ल' शब्दः। पुं०-इन्द्रे । तन्त्रोक्ते भूमिदेवताके मन्त्रभेदे नपुं० । कान्तौ, आकाशे, भूमौ, भये, आह्लादे, वायौ, लवणे, दाने, आश्लेषे, अन्त:करणे, प्रलये, साधने, मनसि, वरुणे, सान्त्वने चेत्येतेष्वर्थेष्वपि पुंस्त्वमस्येति केषाञ्चिन्मतम् ॥ (६७) 'व' शब्दः। पुं०-वायो, राहौ, मन्त्रणे, सान्त्वने, कल्याणे, बलवति, वसतौ, समुद्रे, व्याने, वसने, शालूके, (कुमुदादिमूले) वन्दने च । वरुणे पुं० नपुं० ॥ (६८) 'श' शब्दः। पुं०-महादेवे, शस्त्रे च । मङ्गले नपुं० । कस्यचिन्मते तु सीमायाम , हिंसायाम, शयने च पुंस्त्वम् ; सुखे तु नपुंसकत्वमवसेयम् ॥ (६९) 'ग' शब्दः। पुं०-केशे, गर्भविमोचने मानवे च । सर्वे, श्रेष्ठे, विशे च त्रि० । कश्चित्तु उपसर्गे, परोक्षेऽर्थेऽपि पुंस्त्वमस्येति कथयति ॥ (७०) 'स' शब्दः।। पुं०-विष्णौ, सर्प, ईश्वरे, विहगे, सहाथै, समानार्थे, छन्दःशास्त्रोक्तगणभेदे च । कोपेऽपि पुंस्त्वमस्येति कश्चित् ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy