________________
३२ [श्रीस्याद्यन्तरत्नाकरे स्वरान्तप्रकरणस्थमकारान्तमेकाक्षरप्रकरणम् ]
(४९) 'ट' शब्दः ।
पुं० - वामने, पाढे, निस्वने च । करङ्गे, टङ्कारे च नपुं० । कश्चित्तु पृथिव्यां काके चामुं पठति ॥
(५०) 'ठ' शब्दः
पुं० - मण्डले, चन्द्रबिम्बे, शून्ये, महेश्वरे, बृहद्ध्वनौ, जनसमूहे, शठे च । शून्येऽर्थेऽस्य त्रिलिङ्गत्वमिति कस्यचिन्मतम् ॥
(५१) 'ड' शब्दः ।
/
पुं० - वाडवाग्नौ, शब्दे, शब्दस्य त्रिलिङ्गत्वं कथयति ॥
चासपक्षिणि, शिवे, श्रासे च । कश्चित्तु भयङ्करेऽर्थे -
पुं० – बिन्दुदेवे, भूषणे, सूकरेऽपीत्यपरे ॥
(५२) 'ढ' शब्दः ।
पुं० – ढक्कायां, शुनि, श्वलाङ्गूले, निर्गुणे, ध्वनौ च । निर्धनेऽपि कश्चित् ॥
(५३) 'ण' शब्द: ।
गुणवर्जिते, जलस्थाने, निर्णये, ज्ञाने च । निश्चये,
(५४) 'त' शब्दः ।
पुं० – चौरे, अनृते, पुच्छे, क्रीडे, म्लेच्छे, रत्ने, शृगालपुच्छे च 1 तरले पुण्ये च स्त्रीलिङ्गको नपुंसकलिङ्गकश्च ॥
(५५) 'थ' शब्द: 1
पुं० पर्वते, भयवारके, व्याधिभेदे, भयचिह्ने, भक्षणे च रक्षणे, मङ्गले, भये च नपुं० । भयाद् रक्षणकर्त्तरि त्रिलिङ्गत्वमस्येति कस्यचिन्मतम् ॥