SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे स्वरान्तप्रकरणस्थमकारान्तमेकाक्षरप्रकरणम् ] ३१ (४२) 'घ' शब्दः । पुं०- घण्टायां वर्षरशब्दे (घण्टाया नादे ) च । मेघे, अधर्मेऽपि पुंस्त्वमस्येति , केषाञ्चिन्मतम् ॥ (४३) 'ङ' शब्दः । पुं०—-विषये, विषयरक्षायां च । भैरवे देवे इत्यपि कश्चित् ॥ (४४) 'च' शब्दः । पुं० - चन्द्रे, चौरे, कच्छपे च । दुर्जने, निर्बीजे च त्रिलिङ्गकः । सूर्येऽपि पुंस्त्वमस्येति कश्चित् ॥ . (४५) 'छ' शब्दः। पुं० - छेदने । छेदनकर्तरि निर्मले, तरले च त्रिलिङ्गकः । गृहे नपुं० । चलेsपि पुंस्त्वमिति कश्चित् ॥ (४६) 'ज' शब्द: । ! पुं० - शिवे, विष्णौ, जनके, वेगे, मुक्तौ, विषे, छन्दोग्रन्थोक्ते गुरुमध्यगे जगणाख्ये वर्ण च । तेजसि, पिंशाचे उत्पत्तौ च पुंस्त्वम्; जेतरि, वेगिते च त्रिलिङ्गत्वमस्येति केचित् । कश्चित्तु पुनः गायके, भोजने, जेतरि च पुंस्त्वं मन्यते ॥ (४७) 'झ' शब्द: । पुं० - झन्झावाते, सुरगुरौ, इन्द्रे, ध्वनौ च । अम्बुवर्षणे, दैत्यराजे, तारवायौ चेति केचित् । वेषेऽपि इति कश्चित् । नष्टद्रव्ये त्रिलिङ्गमन्ये प्राहुः ॥ (४८) 'ञ' शब्दः । पुं० - वृषे, शुक्रे, कुटिलगतौ गायने, घर्घरध्वनौ च । वाममतौ इत्यपि केचित् ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy