________________
२८
[श्रीस्याद्यन्तरत्नाकरे केवलस्वरलिङ्गविचारणा)]
। ए ।
यद्यपि एशब्दस्य विष्णावर्थे पुंस्त्वं दृश्यते तथापि व्युत्पत्तिविशेषेण स्त्रीत्वं नपुंसकत्वञ्च परिभावनीयम् । तथाहि - एः महादेव:, स इव आचरति या स्त्री यत् कुलं वा सा तद्वा अयति, अयतीति क्विपि स्त्रियां 'ए' क्लीबे तु "क्लीबे" [२. ४. ९७.] इति हस्वत्वे 'इ' इति स्वरूपं भवति ॥
ऐ ।
न च ऐशब्दस्य महेश्वरेऽर्थे वृत्त्या कथं स्त्रीत्वं क्लीबत्वं वा इति वाच्यम्, व्युत्पत्तिविशेषेण तयोरपि सत्त्वात् । तथाहि - ऐ: महेश्वरः, स इवाचरतीति आयति स्त्री कुलं वा, आयतीति क्विपि 'ऐ' मूलप्रकृतिः, ततः स्त्रीत्वविवक्षायाम् 'ऐ:', नपुंसकत्वविवक्षायां "क्लीवे” [ २.४.९७.] इति हस्वत्वे 'इ' प्रकृतिः ॥
। ओ ।
ओशब्दस्य ब्रह्मवाचकत्वे यद्वा त्रयोदशस्वरवर्णवाचकत्वे पुंस्त्वम्, व्युत्पत्तिविशेषेण च स्त्रीत्वं नपुंसकत्वं चावसेयम् । व्युत्पत्तिश्वयम् - औ: ब्रह्मा स इवाचरतीति भवति स्त्री कुलं वा । अवतीति क्विपि 'ओ' इति मूलप्रकृतिः, ततः स्त्रीत्वविवक्षायाम् 'ओ' इत्याकारिका प्रकृतिरवतिष्ठते, नपुंसकत्वविवक्षायान्तु " क्लीबे” [२. ४ ९७.] इत्यनेन हस्वत्वे 'उ' इति प्रकृतिर्भवति ॥
1479
। औ ।
यद्यपि औशब्दस्य अनन्तेऽर्थे पुंस्त्वेन, विश्वभरायां स्त्रीत्वेन च नपुंसकत्वाभावो दृश्यते तथापि व्युत्पत्तिविशेषेण नपुंसकत्वमपि भावनीयम् । तथाहिऔरिव ( विश्वम्भरा इव ) आचरतीति आवति कुलम् आवतीति क्विपि 'औ' इति नपुंसक प्रकृतिस्ततो हस्वत्वे 'उ' इति भवति ॥
-k