SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे केवलस्वरलिङ्गविचारणा] २७ अस्य शब्दस्य उपर्युक्तव्युत्पत्त्या रक्षाकर्तर्यथै लिङ्गनयेऽपि शक्तिः, नवरं नपुंसके "क्लीबे" [२. ४. ९७.] इति हस्वत्वं विधाय 'उ' शब्दमाश्रित्य रूपाणि वाच्यानि ॥ _ । । ननु ऋशब्दस्य स्वर्गार्थे पुंस्त्वं देवमातरि च स्त्रीत्वमिति लिङ्गद्वयेनैव भा. व्यम् । तन, वक्षोवाचिनो दीर्घस्य ऋकारस्य नपुंसकत्वात् “ क्लीबे " [ २. ४. ९७.] इत्यनेन हस्वत्वे कृते 'ऋ' इनि नपुंसकप्रकृतिः सम्भवति ॥ ऋ । - ऋशब्दस्य भैरवेऽर्थे पुंस्त्वम् देवमातरि स्त्रीत्वम्, वक्षसि च नपुंसकत्वमिति लिङ्गत्रययोगः नवर क्लीबे “क्लीबे" [२. ४. ९७.] इत्यनेन हस्वत्वं विधाय ऋशब्दमाश्रित्य रूपाणि वाच्यानि ॥ .. ननु लशब्दस्य मायायां देवमातरि चार्थे स्त्रीत्वम्, नवमस्वरार्थे च पुंस्त्वमिति लिङ्गद्वयेनैव भाव्यमिति कथं नपुंसकत्वमिति चेत् सत्यम्, अपि तु व्युत्पत्तिविशेषेण तदपि भवति । तथाहि-छः महादेवः, स इवाचरतीति अलति कुलम्, अलतीति 'ल' । अन लशब्दात् विपि तल्लोपे पुनः क्विपि तल्लोपे "क्लीबे" [२. ४. १७.] इति हस्वत्वे च 'ल' इति नपुंसकलिङ्गसिद्धिः॥ न च लशब्दस्य महादेवार्थे पुंस्त्वेन, कामधेनुमातरि स्त्रीत्वेन च नपुंसकवाभावः शङ्कयः, व्युत्पत्तिविशेषेण तस्यापि सम्भवात् तथाहि-लरिवाचरतीति अलति कुलम्, अलतीति क्विपि “ क्लीबे " [२. ४. ९७.] इति हस्वत्वे 'ल' शब्दमाश्रित्य रूपाणि वाच्यानि ॥ .. .
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy