SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे केवलस्वरलिङ्गविचारणा] सम्भवात् । तथाहि-यदा कामदेवभार्यायामभेदोपचारेण इशब्दः प्रयुज्यते तदा स्त्रीवृत्तिरयमवसेयः, तेन 'इ' इति स्त्रीलिङ्गशब्दसिद्धिः । 'वींक प्रजनकान्त्यसनखादनेषु' इत्यत्र प्रश्लिष्ट 'ई' धातुः, तत: एतीति, यद्वा 'ईड्च् गतौ' इत्यत ईयते प्रामोति दीक्षादिकं यत् कुलं तत् 'इ' । अत्र “क्विप्" [५. १. १४८] इति क्विपि तल्लुकि च 'ई' इति नपुंसकप्रकृते: "क्लीबे" [२. ४. ९७] इति हस्वत्वे 'ई' इति नपुंसकस्य सिद्धिः ॥ न च ईशब्दस्य कन्दऽर्थे पुंस्त्वेन लक्ष्म्यर्थे स्त्रीत्वेन च नपुंसकस्वाभाव इति वाच्यम्, उक्तपूर्वमेव यदुत-व्युत्पत्तिविशेषेण लिङ्गत्रयमपि सम्भवति । कलय क्लीबस्वमीशब्दस्य-ई: कन्दर्पः, स इवाचरतीति अयति कुलम्, अयतीति क्विपि 'ई' इति नपुंसकप्रकृतिः, तत: "" क्लीबे" [२. ४. ९७. ] इत्यनेन हस्वत्वे 'इ' इति शब्दो भवति । स्त्रीलिङ्गे ईशब्दो द्विविधो भवति, डीप्रत्ययान्तस्तद्भिन्नश्च । तत्र लक्ष्मीवाचकत्वे डीप्रत्ययान्तत्वम् । तद्भिन्नत्वं तु 'ईच् गतौ' अत ईयते प्राप्नोति मोक्षादिकं या सा 'ई:' अत्र क्विपि. तल्लुकि च डीप्रत्ययान्तमिन्नस्य 'ई' इति स्त्रीलिङ्गशब्दस्य सिद्धिः ॥ ।उ। यद्यपि उशब्दस्य शम्भावर्थे पुंस्त्वेन कुण्डलिन्यामर्थे स्त्रीत्वेन च नपुंसकस्वाभावस्तथापि व्युत्पत्तिविशेषेणार्थविशेषे नपुंसकत्वमपि भवति, तद्यथा-'अव रक्षणादिषु' अतोऽवति रक्षति ब्रह्मचर्यादिकं यत् कुलं तत् 'उ' अत्र “क्विप्" [५. २. १४८.] इति क्विपि “मन्यविधिविज्वरित्वरेरुपान्त्येन" [४. १. १०९] इति ऊटि 'उ' इति प्रकृतिस्ततः “क्लीबे" [२. ४. ९७.] इति हस्वत्वे कृते 'उ' इति नपुंसकलिङ्गप्रकृतिः सिद्धयति ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy