________________
[श्रीस्याद्यन्तरत्नाकरे केवलस्वरलिङ्गविचारणा] इत्यकारलोपे 'अ' इति स्त्रीलिङ्गप्रकृतिः ततः "अणजे०" [२.. ४. २०] इति डीप्रत्यये 'ई' इति स्त्रीलिङ्गशब्दः ।।
यद्वा केनचित् पृष्टम्-क्वास्ति 'अ' विष्णुः?. समीपस्थः कश्चिद् विष्णुमायाँ लक्ष्मी दृष्ट्वाऽभेदोपचारेणाह-इयम् 'ई' विष्णुरित्यर्थः । अत्र “धवायोगाद्" [२. ४. ५९] इति डीप्रत्यये "अस्य ड्या लुक" [२. ४. ८६.] इत्यकारलुकि अप्रकृतिक 'ई' शब्दः । तथा च लिङ्गत्रयस्यापि सम्भवेन विष्वपि लिङ्गेषु यानि रूपाणि दहितानि तानि युक्तान्येवेति । एव माकारादिष्वपि विज्ञेयम् ॥
. आ । यद्यपि कोशे आशब्दस्य महेश्वरे पितामहे चार्थे शक्तिः प्रदर्शिता, तत्र च पुंस्त्वमेवास्ति, तथापि व्युत्पत्तिविशेषेण स्त्रीत्वं नपुंसकत्वमपि च सम्भवति । तथाहि-आ महेश्वरः, स इवाचरतीति आति, आतीति क्विपि 'आ' पार्वतीअर्थः, इति स्त्रीलिङ्गस्य 'आ' शब्दस्य सिद्धिः । यद्वा-'आप्लंट् व्याप्तौ' . अत आप्नोति मोक्षादिकं या सा 'आ' । अत्र “कचित्" [५. १. १७१] इति डिति अप्रत्यये “ डित्यन्त्य० " [२. १. ९४] इत्यन्त्यस्वरादिलोपे "आत्" : [२. ४. १८] इत्यापि आबन्तस्त्रीलिङ्गस्य 'आ' शब्दस्य सिद्धिः ।। ___ आ महेश्वरः, स इवाचरति यत् कुलं तद् आति, आतीति क्विपि 'आ' इति नपुंसकप्रकृतिः, ततः "क्लीबे" [२. ४. ९७] इति ह्रस्वत्वे 'अ' इति नपुंसकलिङ्गशब्दः ॥
केचित् किल अस्य विष्णोरपत्यम् 'इ.' इति इशब्दस्य कामदेवे पुंस्त्वेन स्त्रीत्वं क्लीवत्वं च न मन्यन्ते, तदपरे न क्षमन्ते, व्युत्पत्तिविशेषेण तयोरपि