________________
२४ [श्रीस्याद्यन्तरत्नाकरे केवलस्वरलिङ्गविचारणा ]
। केवलानां स्वराणां लिङ्गादानाक्षेपपरिहारौ ॥ .
नन्वस्मिन् प्रकरणे चतुर्दशानामपि स्वराणां रूपाणि भवद्भिः प्रदर्शितानि, अपि तु तन्न युक्तं पश्यामः, यतः " चादयोऽसत्त्वे " [ १. ३. ३१. ] इति सूत्रेण चादिपाठादमीस्लामव्ययत्वेन लिङ्गसंख्यान्वयाभाव इति चेत् , सत्यम् , निरुक्तसूत्रेणाऽसात्वेऽर्थे वर्तमानानामेवाव्ययत्वं विधीयते, न तु. येऽर्थेऽपि । संथा च द्रव्येऽर्थे वर्तमानानाममीषां चतुर्दशानामपि स्वराणां लिङ्गसंख्यान्वययोग्यत्वेन निरुक्तरूपोपदर्शनं युक्ततरमेवेति गृहाण ॥ . ..
. । । ननु कोशे अशब्दस्य विष्णौ ब्रह्मणि चार्थे शक्तिः प्रतिपादिता, तत्र विष्णौ पुंस्त्वं, ब्रह्मणि च नपुंसकत्वमिति लिङ्गद्वय एवास्य रूपाणि भवितुमर्हन्ति. नतु स्त्रियामपीति चेत्, मैवम् , न हि केवलस्य कोशस्यैव शक्तिग्राहकत्वमपितु व्याकरणादेरपि , यदुक्तम्"शक्तिग्रहं व्याकरणोपमान-कोशाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद् विवृतेर्वदन्ति, सान्निध्यतः सिद्धपदस्य वृद्धाः॥१॥"इति - व्याकरणं च व्युत्पत्तिप्रतिपादनपरम् , व्याक्रियन्ते व्युत्पाद्यन्ते प्रकृतिप्रत्ययादिविभागेन प्रतिपाद्यन्ते शब्दा अनेनेति व्याकरणमित्यन्वर्थात् ॥ व्युत्पत्तिवैचित्र्याच लिङ्गत्रयमपि सम्भवति । तथाहि-'अट गतौ' 'अत सातत्यगमने' आभ्याम् अटति अतति वा स्वामिकुलादिकं या सा 'आ' । अत्र "क्वचिंत्" [ ५. १. १७१. ] इति डिति अप्रत्यये "डित्यन्त्यस्वरादेः " [२. १. १९४ ] इत्यन्त्यस्वरादिलोपे 'अ' इति स्त्रीलिङ्गप्रकृतिः, ततः " आत् " [२. ४. १८ ] इत्यापि 'आ' इति स्त्रीलिङ्गः शब्दः ॥ . एक्म्-अस्य विष्णोः, इयं स्त्री इति 'ई' लक्ष्मीरित्यर्थः । अत्र 'तस्येदम् " .[ ६. ३. १६० ] इतीदमर्थेऽणि, "भवर्णेवर्णस्य" [ ७. ४. ६८ ]