SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १९० ( श्रीस्याधन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ] तृ० कानकिना कानकिभ्याम् कनकैः, कानकिभिः च० कानकये कनकेभ्यः, कानकिभ्यः १० कानके कानक्योः कनकानाम, कानकीनाम् स० कानको कनकेषु, कानकिषु सं०. हे कानके हे कानकी हे कनकाः, हे कानकयः अत्र कनकशब्दात् "अत इन्" [ ६, १, ३ ] इतीनि "अवर्णे" [७, ४, ६८] इत्यन्त्याकारलुकि "वृद्धिः स्वरे०" [७, ४ १] इत्याद्यस्वरवृद्धौ चैकवचनद्विवचनयोः 'कानकि' इति प्रकृतिः । बहुवचने तु-" वोपकादेः " [ ६, १, १.] इति इलो विकल्पेन लुब् भवति, लुप्पक्षे * 'निमित्तापाये नैमित्तिकस्याप्यपाय' इति न्यायाद् (इन् ) प्रत्ययरूपनिमित्तापाये आद्यस्वरवृद्धा. दिरूपनैमित्तिकस्याप्यपायात् 'कनक' इति मूलप्रकृतिः । लुबभावपक्षे 'कानकि' इति प्रकृतिः । तथा चैकवचनद्विवचनयोः 'मुनि' (१७५) वत्, बहुवचने तु लुप्पक्षे 'जिन' (७४) वत्तदभावे च मुनिवद्रूपसाधनिका ज्ञेया ॥ स्त्रीलिस तु-कनकस्यापत्यं स्त्री 'कानकी' इति वक्ष्यमाण' 'नदी' (२२५) वत् । अत्र "नुर्जातेः" [२, ४, ७२] इति कीः ॥ (२२२) इकारान्तस्तद्धितान्तो नित्यबहुवचनान्तः 'अङ्गवङ्गदाक्षि' - शब्दः । पुल्लिङ्ग। ( आङ्गश्च वाङ्गश्च दाक्षिश्च-अङ्गवङ्गदाक्षयः ) विभक्तिः बहुवचनम् प्र० अजवादाक्षयः आङ्गवाङ्गदाक्षयः द्वि० अजवादाक्षीन् आङवाङ्गदासीन * अस्मिन् तद्धितान्तप्रकरणे यस्य शब्दस्य बहुवचने यत्र यत्र मूलप्रकृतिस्तत्रतत्राऽस्य न्यायस्य प्रवृत्तिः ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy