________________
१८८ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ]
वि० एकव० द्विव०
बहुव० प्र० यौधिष्ठिरिः यौधिष्ठिरी युधिष्ठिराः द्वि० यौधिष्ठिरिम्
युधिष्ठिरान तृः यौधिष्ठिरिणा यौधिष्ठिरिभ्याम् युधिष्ठिरैः
एवमग्रे एकवचन द्विवचनयोः 'ऋषि' (१७६) वत्, बहुवचने च 'वीर' (७५) वत् ॥
_ अत्र युधिष्ठिरशब्दात् “बाह्वादिभ्यो गोत्रे" [ ६, १, ३२] इति इजि "भवणेवर्णस्य" [७, ४, ६८] इत्यन्त्याऽकारलुकि "वृद्धिः स्वरे०" [७, ४, १] इति आद्योकारस्यौकारे च एकवचन द्विवचनयोः यौधिष्ठिरि' इति प्रकृतिः । बहुवचने तु " प्राग्भरते. " [ ६, १, १२९ ] इति इनो लुपि 'युधिष्ठिर' इति प्रकृतिः ॥
. स्त्रोलि) तु-युधिष्ठिरस्यापत्यं (गोत्रं) स्त्री योधिष्ठिरी' इति वक्ष्यमाण नदी (२२५) वदपि तु षष्ठीबहुवचने 'यौधिष्ठिरीणाम्' इति णत्वविशेषोऽवसेयः । अत्रापि “नुर्जातेः' [२, ४, ७२] इति डीविहित इति । (२१९) इकारान्तस्तद्धितान्तः 'आर्जुनि' शब्दः । पुल्लिङ्गे
( अर्जुनस्यापत्यं [ गोत्रं ] पुमान्-आर्जुनिः ) वि० एकव० द्विव०
बहुव० प्र० आर्जुनिः आर्जुनी अर्जुनाः द्वि० आर्जनिम्
अर्जुनान तृ आर्जुनिना आर्जुनिभ्याम अर्जुनै:
इत्थमने एकवचनद्विवचनयोः 'मुनि' (१७५) वत्, बहुवचने तु 'जिन' (७४) वदवसेयम् ॥
अत्र 'अर्जुन' शब्दात् "बाह्वादिभ्यो गोत्रे" [ ६, १, ३२ ] इतीजि "भवणे." [७, ४, ६८] इत्यन्त्याकारलुकि " वृद्धिः स्वरे " [७, ४, १]