________________
द्विव०
१७६ [श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
इत्प्रत्यये उपर्युक्तवद्रूपाणि, इदभावे च पुंसि 'जिन' (७४) वत् , स्त्रियां 'दया' (१६५) वत, क्लीवे च 'दर्शन' (१५६) वत् ॥
एवम्-पूतिगन्धि-उद्गन्धि-सुरभिगन्धि-इति शब्दत्रयम् ॥ . . . .
एवं पुनः, अल्पार्थकादुपमानाच्च गन्धशब्दान्ताबहुव्रीहेरपि विकलपन. . 'इ' भवतीति । यथा सूपगन्धि-सूपगन्धं वा भोजनम् ; अन्नवाल्पे " : [ ७, ३, १४६ ] इतीद्वा । उत्पलगन्धि-उत्पलगन्धं वा मुखम् ; अत्र " वोपमानात् " [ ७, ३, १४७ ] इतीद्वा बोध्यः ॥ रूपादिव्यवस्था च निरुक्तवदेव ॥ (२०३) इकारान्तो विशेषणरूपः 'रजनिजानि' शब्दः। पुल्लिङ्गे
(रजनि जाया यस्य स 'रजनिजानि' श्चन्द्रः) वि० एकव०
बहुव० प्र. रजनिजानिः रजनिजानी रजनिजानयः द्वि० रजनिजानिम्
रजनिजानीन् तृ० रजनिजानिना रजनिजानिभ्याम् रजनिजानिभिः
एवमने सर्व 'मुनि' ( १७५ ) वबोध्यम् ॥
एवम्-(युवतिर्जाया अस्य=)युवजानिः, प्रियजानिः, शोभनजानिः, वधूजानिः, अनन्यजानिः प्रमुरवाः शब्दा बोध्याः ॥ ___ अत्र "जायाया जानिः" [७, ३, १६४ ] इति बहुव्रीहौ जायाशब्दस्य 'जानि' इत्यादेशो भवतीति ॥ (२०४) इकारान्तो द्विवचनान्तः पुंल्लिङ्गः 'दम्पति' शब्दः॥
(जाया च' पतिश्च दम्पती) प्र. द्वि० दम्पती प. स. हे दम्पत्योः तृ० च० प० दम्पतीभ्यम् । सं० हे दम्पती!
___ साधनिका-'मुनि' (१७५) शब्दस्य द्विवचनवत् ॥