SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] १७५ शब्दवाच्यार्थस्य पुरुषत्वेऽपि यष्टिशब्दस्य स्त्रीलिङ्गत्वानपायात् ; अत एव विकल्पेन दायाद्यादेशेषु, शसि नत्वाभावे च, न किमपि बाधकम् । एतत् , समर्थकानि कलिकालसर्वज्ञश्रीहेमचन्द्रप्रभूणामिमानि वचनानि-" चञ्चा:, खरकुटीः, यष्टीः पुरुषान् पश्य-इत्यत्र चञ्चादयः शब्दाः पुरुषे वर्तमाना अपि स्त्रीलिङ्गत्वं नोज्झन्तीति नकारो न भवति ॥ यदा तु शब्दस्य पुंलिङ्गत्वं तदा वस्तुनः स्त्रीत्वे नपुंसकत्वे वा नकारो भवत्येव, दारान् भ्रुकुंसान स्त्रीः पश्य, षण्ढान् पण्डकान् पश्य ” [ शसोऽतासश्च नः पुंसि (१, ४, ४९ ) इति सूत्रवृत्तौ ।। अत एव लिङ्गानुशासने 'अस्च्यारोपाभावे . गुणवृत्तेराश्रयाद्वचनलिङ्गे' इति आरोपाभावे आश्रयाद्वचनलिङ्गे' कथिते ॥ (२०२) इकारान्तो विशेषणरूपः '* सुगन्धि' शब्दः ।। पुंल्लिने ( शोभनो गन्धो गन्धगुणो यस्य स 'सुगन्धिः' कपुरः ॥ ) वि एकव० द्विव० बहुव० प्र० सुगन्धिः सुगन्धी सुगन्धयः द्वि. सुगन्धिम् सुगन्धी तृ. सुगन्धिना सुगन्धिभ्याम् सुगन्धिभिः एवम्-अग्रे सर्व 'मुनि' (१७५) वत् ॥ स्त्रीलिङ्गे-सुन्दरो गन्धो गन्धगुणो यस्याः सा 'सुगन्धिः' मालती, 'मति' (१७७) वत् ॥ नपुंसकलिङ्गे तु-सुष्टु गन्धो यस्य तत् 'सुगन्धि' उत्पलम्, 'अचि' ( १७९ ) वत् । ___ भागन्तौ गुणे वर्तमाने गन्धशन्दे " काऽऽगन्तौ " [७, ३, १४५ ] इति विकल्पेन 'इत्' प्रत्ययो भवति । यथा पुंसि सुगन्धिः-सुगन्धो वा कायः, स्त्रियां सुगन्धिः-सुगन्धा वा तनुः, क्लीने सुगन्धि-सुगन्धं वा शरीरम् । तथा च * अत्र सुपूर्वकगन्धशब्दात् "सुपूत्युत्सुरमेर्गन्धाद् इद् गुणे" [७, १, १४४ ] इति गुगार्थकगन्धशब्दान्ताबहुव्रीहेरिजवतीति ॥ ...
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy