________________
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
66
दधि अतिक्रान्तं यया सा 'अतदधिका' इति ॥ अत्र दध्युरः सर्पिर्मधूपानच्छाले : " [ ७, ३, १७२ ] इत्यनेन कच्' भवति, बहुव्रीहिस्वात् । यदुक्तं लघुन्यासकारैः - " यदा तु दध्यतिक्रान्तं ययेति बहुव्रीहिस्तदा 'दध्युरः सर्पिः ० ' - इत्यनेन कचा भाव्यम् ॥” कचि सति "आत्” [२, ४, १८] इत्यापि 'अतिदधिका' इति, तद्रूपाणि तत्साधनिका च 'दया' ( १६५ ) शब्दवदवसेया ॥
१६८
दध्यतिक्रान्तं येन कुलादिना इति 'अतिदधि' ॥ रूपाण्यस्य साधनिका च 'दधि' (१९४) वत्, पुंवद्भावेऽपि विशेषाभावात् । समासान्तविधेरनित्यत्वाश्रयणादत्र कच् न ॥
'अतिदध्ना' कुलेन - इत्यादौ विशेषविधानात् परमपि नागममनादेशो बाधते इति ॥
अतिशयितं दधि = 'अतिदधि' इत्यस्यापि दधि ( १९४ ) वद्भूपादिकं सर्व बोध्यम् ॥
66
ननु एकस्मिन्नेव बहुवीहिसमासस्थे 'अतिदधि' शब्दे, पुंसि क्कीबे च समासान्तविधेरनित्यत्वमाश्रितं, स्त्रियां तु नः किं तत्र कारणमिति चेदुच्यतेअतिदन्या स्त्रियेति । यदात्र इतोऽक्त्यर्थात् " [ २, ४, ३२ ] इत्यनेन डीस्तदा तद्व्यवधानादनेनादेशाभावे 'अतिदध्या' इत्येव भवति । यदातु ध्यतिक्रान्तं यथेति बहुबीहिस्तदा " दध्युरः सर्पिः ०" [ ७, ३, १७२] इत्यमेन कचा भाव्यम् । तस्माद्दध्यतिक्रान्तयेति तत्पुरुष एव न्याय्यः । इति लघुन्यासकारवचनेन स्त्रियामनित्यत्वं नाश्रितम् ॥ "प्रियदध्ना । सामासान्तविधेरनित्यत्वात् कच् न भवति " इति कलिकाल सर्वज्ञश्रीम. द्धेमचन्द्रसूरिभगवद्वचनात् पुंसि क्लीब्रे चाऽनित्यत्वमाश्रितमिति संक्षेपः ॥
99
'6
9
""