SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] १६७ ष. तृ० अतिदध्ना अतिदधिभ्याम् अतिदधिभिः च० अतिदध्ने अतिदधिभ्यः प० अतिदनः अति:नोः अतिदध्नाम् स० अतिदनि, अतिद्धनि; " अतिदधिषु सं० हे अतिदधे, हे अतिदधि; हे अतिदधिनी, हे अतिदधीनि एवम्-प्रियं दधि यस्य कुलादेस्तद् 'प्रियदधि' इत्यपि ॥ साधनिका--सर्वा 'दधि' (१९४) वत् , स्वरादौ टादौ पुंवद्भावेऽपि विशेषाभावात् ॥ दधि अतिक्रान्तं येन सः 'अतिदधिः' इत्यस्य रूपाणि तत्साधंनिका च स्वरादौ टादौ दधि (१९४) वदन्यत्र च 'मुनि' (१७५) वत् ॥ एवं प्रियं दधि यस्य स 'प्रियदधिः' शब्दो बोध्यः ॥ न चात्र बहुव्रीहित्वात् “ दध्युरःसर्पिमधूपानच्छालेः " [७, ३, १७२ ] इत्यनेन समासान्तः कच् कथं न कृत इति वाच्यम् ? समासान्तविधेरनित्यत्वात् ॥ यदुक्तं बृहद्वृत्तौ-'प्रियना' । समासान्तविधेरनित्यत्वात् कर न भवति इति ॥ x अत्र श्रीमन्तो विनयविजयमहोपाध्यायप्रवराः-'प्रियदध्ना, प्रियदधिना' इति रूपद्वयं दर्शयन्ति, तेषामयमभिप्राय:-नपुंसकत्वपक्षे दधिवत् 'प्रियदना', “ वान्यतः० " [१, ४, ६२ ] इति वैकल्पिके पुंवद्भावे "टः पुंसि ना" [ १, ४, २४ ] इति नादेशे 'प्रियदधिना' इति ॥ अपरे तु 'प्रियदना' इत्येकमेव रूपमित्याहुः; तदभिप्रायोऽयम्-पुंवद्भावपक्षेऽपि अतिदधि-शब्दघटकदधिशब्दस्य नपुंसकत्वतादवस्थ्यात् , “दध्यस्थि०" [१,४,६३] इत्यत्र स्वाऽन्यसम्बन्धिविज्ञानाद् अनादेशे सति ‘अतिदध्ना' इत्येव भवतीति॥ एवमनादेशप्रसङ्गे सर्वत्राप्यूह्यम् ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy