SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६४ [श्रोस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ) [ २. १. १०८ ] इति अकारलुकि ( " लोकात् " [ १, १, ३ ] इति संयोजने सति ) *दध्ना' इति । एवं 'दध्ने, दध्न: २, दध्नोः ' इति रूपाणि साध्यानि । सप्तम्येकवचने तु रूपद्वयं, यथा-"ईङो वा" [२, १, १०९] इति अकारस्य लुग् वा भवतीति विशेषः, तेन लुक्पक्षे 'दध्नि' लुगभावे च 'धनि' इति ॥ शेषं (णत्वं विना) 'वारि' (१७८) वत्साध्यम् ॥ दधातीति दधिरिति व्युत्पत्तिकस्य दधिशब्दस्य लिङ्गत्रयेषु रूपमणि भवन्ति, यथा-दधाति इत्येवं शीलो 'दधिः' पुरुषः, तद्रूपाणि 'मुनि' (१७५) वत् , दधाति इत्येवं शीला स्त्री 'दधिः' इत्यस्य रूपाणि 'मति' (१७७) वत् यदा "इतोऽत्यर्थात् " [ २, ४, ३२ ] इति ङीस्तदा 'दधी' इति दीर्घकारान्तस्त्रीप्रकृतेर्वक्ष्यमाण 'नदी' (२२५) वद्रूपाणि बोध्यानि ॥ क्लीबे तु-दधाति इत्येवं शीलं यत् तद् (कुलं) 'दधि' इति, तद्रूपाणि 'शुचि' (१७९) वद्बोध्यानि ॥ ____ नन्वत्र लिङ्गत्रयेषु, क्वापि “ दध्यस्थि० " [ १, ४, ६३ ] इति सूत्रं कथं न प्रवर्तितमिति चेदुच्यते-तस्य नपुंसकलिङ्गे एव प्रवर्त्तनात् पुंसि स्त्रियां प्राप्तिरेव नास्ति; क्लीबेऽपि 'सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम्' इति न्यायेन अथ्यादिशब्दानामौणादित्वाद् दधिशब्दस्याप्यौणादिकस्यैव तत्र ग्रहणात् । अस्य चौणादिकत्वाभावात् ॥ (१९५) इकारान्तो विशेषणरूपः 'अतिदधि' शब्दः ॥ पुंल्लिङ्ग ( दध्यतिक्रान्तो यः स अतिदधिः ) वि० एकव. द्विव० बहुव० प्र० अतिदधिः अतिदधी अतिदधयः द्वि० अतिदधिम् अतिदधीन् * अत्र विशेषविधानात् परोऽपि नागमोऽनादेशेन बाध्यते ॥ एवं 'दध्ने' इत्यादावपि ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy