________________
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
१६३
कश्चित्तु ङीप्रत्ययमपीच्छति, तन्मते 'युवन्+ङी' इति स्थिते " श्वन्युवन्मघोनो डीस्याद्यघुट्स्वरे व उः ” [ २, १, १८६ ] इति स्वरसहितवस्य उत्वे, द्वयोरुकारयोर्दीर्घत्वे च 'यूनी' इति प्रकृतिः, एतद्रूपाणि साधनिका च 'नदी' ( २२५ ) वत् । वस्तुतस्तु शिष्टाऽसम्मतत्वादिदं त्याज्यम् ॥
युवानमतिक्रान्ता इति 'अतियूनी', अत्र “ यूनस्तिः " [२, ४, ७७] इति मुख्यग्रहणेन तिप्रत्ययाभावे नान्तलक्षणो डीभवति । 'अतियूनी' इत्यस्य रूपाणि साधनिका च 'नदी' (२२५) वत् ॥
(१९४) इकारान्तो नपुंसकलिङ्गः 'दधि' शब्दः ॥ वि० एकव०
द्विव०
बहुव० प्र० दधि
दधिनी
दधीनि द्वि० " तृ० दध्ना
दधिभ्याम् दधिभिः च० दध्ने
दधिभ्यः प० दध्नः ष. दध्नः
दध्नाम् स० दध्नि, दधनि;
दधिषु सं० हे दधे, हे दधि; हे दधिनी हे दधीनि
एवम्-अस्थिसक्थिशब्दौ ॥
साधनिका-'दधि+टा(आ)'="दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान्" [१,४,६३] इति इस्थाने 'अन्' इत्यादेशे ('दध्+अन्+आ' इति जाते) " अनोऽस्य " ___x दधिशब्दस्य द्वेधा 'निष्पत्तिः, यथा-'दधि-धारणे' इत्यतः “पदिपठि." [६०७] इति ( उणादिसूत्रे आदिग्रहणाद् ) 'इ' प्रत्यये दधि-क्षीरविकारः । 'डुधांगक्=धारणे' इत्यतः " सस्रिचक्रिदधिजज्ञिनेमि " [ ५, २, ३९ ] इति सूत्रेण शीलादौ सत्यर्थे कृतद्विर्वचनो ढिप्रत्ययान्तो निपात्यते, दधातीति दधिः॥
दध्नोः