SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १६२ [श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] युवतयः युवतीः विधेरनित्यत्वात् कच्प्रत्ययो भवेन्नवेति वक्तव्यम् ? अनित्यत्वस्थले विनिगमनाविरहेण शिष्टप्रयोगान् लक्ष्यीकृत्यैव प्रवृत्यभावबोधनात् । अत्र तादृशः शिष्टप्रयोगो यदि उपलभ्येत तर्हि कचभावे नास्माकमाग्रहः, इतरथा कचावश्यं भाव्यम् । एवमन्यत्राऽपीति संक्षेपः ॥ (१९३) इकान्तः स्त्रीलिङ्गः 'युवति' शब्दः॥ वि० एकव० द्विव० बहुव० प्र० युवतिः युवती द्वि० युवतिम् तृ० युवत्या युवतिभ्याम् युवतिभिः एवमग्रे 'मति' (१७७) वद्रूपाणि साधनिका च ज्ञेया ॥ 'युवन्' शब्दात् स्त्रियां नकारान्तलक्षणङीप्रत्यये प्राप्ते, तदपवादभूतः " यूनस्ति: " [२, ४, ७७ ] इति तिप्रत्ययो भवति; तेन 'युवन्+ति' इति स्थिते “ नामसिदय्व्यञ्जने ” [१, १, २१] इति पदत्वे "नाम्नो नोऽनह्नः" [२, १, ९१ ] इति नकारस्य लुकि च 'युवति'रिति शब्दनिष्पत्तिः ॥ ननु अस्माद् ‘युवति' शब्दात् " इतोऽत्यर्थात् " [२, ४, ३२] इति कथं डीप्रत्ययो न भवतीति चेदुच्यते-अत्र नान्तलक्षणङीबाधेऽपि ङीत्वजात्या. श्रयणेन क्त्यन्तलक्षणडीप्रत्ययस्यापि बाधात् 'सकृद् गते स्पर्द्ध यद्बाधितं तद् बाधितमेव' इति न्यायात् , पश्चादपि युवतिशब्दात् "इतोऽत्यर्थाद्" इति डीनं भवतीति ॥ ननु एवं तर्हि 'युवती' इति शिष्टप्रयोगे कथमुपलभ्यते इति चेदुच्यतेयौतेरौणादिककिदतिप्रत्यययान्तात् "इतोऽक्त्यर्थात्" इति डीभवनात् ॥ यौते: शत्रन्तादपि “ अधातूदृदितः ” [२, ४, २,] इति डीप्रत्ययेऽपि ॥ 'युवती' इत्यस्य रूपाणि साधनिका च 'नदी' (२२५) वत् ॥ .
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy