________________
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] १६१ (१९२) इकारान्तो विशेषणरूपः 'अतिनदि' शब्दः । तत्र पुंल्लिङ्गे
( नदीमतिक्रान्तोऽतिनदिः पुरुषः ) वि० एकव०
द्विव०
बहुव० प्र. अतिनदिः अतिनदी अतिनदयः द्वि० अतिनदिम्
अतिनदीन तृ० अतिनदिना अतिनदिभ्याम् अतिनदिभिः
एवमग्रे सर्व 'मुनि” (१७५) वद्बोध्यम् ॥ ननु 'अतिनदये' इत्यादिषु (ङित्सु) " स्त्रिया ङितां वा. "[१, ४, २८ ] इति वैकल्पिका दायाचा. देशाः कथं न कृता इति चेन्न, हस्वेकारान्तत्वे सति प्राधान्येन स्त्रीत्वाभावात् ॥
स्त्रीलिङ्ग-नदीमतिक्रान्ता 'अतिनदिः' इति, तद्पाणि साधनिका च 'मति' (१७७) वत् ॥
न च स्त्रियां 'अतिनदये, अतिनधै' इत्यादौ ईकारस्य स्थानिवद्भावात् " स्त्रीदूतः " [ १, ४, २९ ] इति नित्या दिदादेशा वाच्याः; ईदूत इति वर्णविधित्वेन स्थानिवद्भावाभावात् ॥
क्त्यर्थभिन्नत्वेन यदा " इतोऽक्त्यर्थात् " [२, ४, ३२ ] इति ङीस्तदा 'अतिनदी' इति दीर्धकारान्तः शब्दो 'नदी' (२२५) वज्ज्ञेयः ॥
नपुंसकलिङ्गे तु-नदीमतिक्रान्तं यत्कुलं तद् ‘अतिनदि', 'शुचि' (१७९) वद्वोध्यः ॥
अतिशयिता नदी='अतिनदी' इति दीर्घकारान्तस्य स्त्रीलिङ्गे एव 'नदी' (२२५) वद्रूपाणि वाच्यानि ॥
अतिशयिता नदी यत्र स 'अतिनदीको देशः' अत्र "ऋन्नित्यदितः" [७, ३. १७१ ] इति समासान्तः कच भवति ॥ न च " पूजास्वतेः प्राक्टात् " [ ७, ३, ७२ ] इत्यनेन कचो निषेध इति वाच्यम् , टप्रत्ययात् प्रागेवास्य प्रचारात् । कविधायकन्तु टविधेः परं सूत्रम् ॥ न च समासाम्त