________________
[ श्रीस्याद्यन्तरत्नाकरे - इकारान्तं प्रकरणम् ]
१५५
साधनिका - द्वितीयापर्यन्तरूपसाधनिका पुंवद्बोध्या, किन्तु 'अतिस्त्रीः ' इत्यत्र स्त्रीलिङ्गत्वेन शसः सस्य नत्वं न स्यादपि तु तस्य रुत्वे विसर्ग एवेति विशेषः ॥ अतिस्त्रि+टा ( आ ) = "स्त्रिया:" [ २, १, ५४ ] इति इकारस्य इयादेशे 'अतिस्त्रिया' ॥ अतिस्त्रि + डे (ए) = " स्त्रिया ङितां वा दैदासदासदाम् "
इति वैकल्पिकादेशे " fan: " इयादेशे च 'अतिस्त्रियै' इति, पक्षे
[ १, ४, २८ ] इति ङेस्थाने 'दै ( ऐ)' [ २, १, ५४ ] इति इस्थाने 'अति' इति ॥
एवम् 'अतिस्त्रियाः २, अतिस्त्रियाम्' इत्यत्राप्यनुक्रमेण दासदासदाम्--इयादेशश्च विधेयः । अत्रास्य 'अतिथि' इति समासस्य इकारान्तत्वे सति प्राधान्येन स्त्रीवाचकत्वाद् दिदादेशा वा बोध्याः ॥
"
ननु 'अतिस्त्रये, अतिस्त्रेः २, अतिस्त्री' इत्यत्र “स्त्रियाः” [ २, १, ५४ ] इति इयादेशः कथं न कृत इति चेदुच्यते--' परेणाऽपि इयादेशेन इत्कार्यं न बाध्यते' इति न्यायेन तन्निरासात् ॥ शेषं 'मति' (१७७) वत्साध्यम् ॥
66
यदा तु इतोऽस्यर्थात् " [ २, ४, ३२ ] इति ङीस्तदा अतिस्त्रि + ङी= 'अतिस्त्री' इति प्रकृतिः, तद्रूपाणि सर्वाणि वक्ष्यमाण 'स्त्री' ( २२६ ) शब्दवद्बोध्यानि ॥
नन्वत्र ङीप्रत्ययेन व्यवधानात् स्याद्यव्यवहितपूर्वत्वविशिष्टस्य स्त्रीशब्दसम्बनिधन इवर्णस्याभावात् कथम् स्त्रीशब्दवत् इयादेशादिरिति चेद् ? उच्यते'द्वयोः स्थाने निष्पन्न आदेशोऽन्यतरव्यपदेशभाक्' इति न्यायेन खिशब्दसम्बनिधन इकारस्य स्थाने, ङीप्रत्ययस्य च ईकारस्य स्थाने' यः 'ई' इत्येकादेशः, स स्त्रीशब्दसम्बन्धीवर्णत्वेनापि व्यवह्रियते इति नोक्तदोषावकाशः ॥
‘अतिशयिता स्त्री' इति विप्रहे तु 'अतिस्त्री' इति दीर्घेकारान्ता प्रकृति, तद्रूपाण्यपि वक्ष्यमाण 'स्त्री' ( २२६ ) शब्दवद्बोध्यानि ॥