SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] १५३ ष० " प० अतिनेः अतिस्त्रिभ्याम् अतिस्त्रिभ्यः अतित्रियोः अतिस्त्रीणाम् स. अतिखौ अतिस्त्रिषु सं० हे अतिस्त्रे हे अतिस्त्रियौ हे अतिस्त्रयः साधनिका-अतिस्त्रि+औ=एकदेशविकृतमनन्यवदिति न्यायात् "स्त्रियाः" [२, १, ५४] इति इयादेशे 'अतिस्त्रिग २॥ अतिस्त्रि+अम् अत्र " वाम्शसि' [२, १, ५५] इति विकल्पेन इयादेशो भवति, इयादेशपक्षे 'अतिस्त्रियम्' तदभावपक्षे तु “ समानादमोऽतः " [ १, ४, ४६ ] इत्यमोऽका. रस्य लुकि 'अतिस्त्रिम्' ॥ अतिस्त्रि+शस् (अस)="वामशसि" [२, १, ५५] इति वैकल्पिके इयादेशे, सस्य रुत्वे विसर्गे च ‘अतिस्त्रियः' इयादेशाभावे " शसोऽता. " [ १, ४, ४९ ] इति इकाराऽकारयोः स्थाने दीर्घत्वे सस्य नत्वे च 'अतिस्त्रीन्' ॥ अतिस्त्रि+ओस्=" स्त्रियाः " [ २, १, ५४ ] इति इकारस्य इयादेशे, सस्य रुत्वे विसर्गे च 'अतिस्त्रियोः'२॥ सम्बोधनद्विवचनसाधनिका प्रथमगद्विवचनवत्, शेषा साधनिका च 'मुनि' ( १७५ ) वज्ज्ञेया॥ 'ननु 'अतिस्त्रि+औ' ( अतिस्त्रियौ ) इत्यत्र " इदुतोऽस्त्रेरीदूत ” [ १, ४, २१ ] इति सूत्रेण मुनिशब्दवदीर्घः कथं न कृत इति चेदुच्यते-" इदुतोऽस्नेरीदूत् " इत्यत्र स्त्रिशब्दवर्जनान्न दीर्घः । इदमेव स्त्रिशब्दवर्जनं . ज्ञापकम्यत् ‘परेणाऽपि इयादेशेन इत् कार्य न बाध्यते,' तेन “ जस्येदोत् " [ १, ४, २२ ], " टः पुंसि ना " [ १, ४, २४ ] " ङित्यदिति ” [ १, ४, २३ ], “ङिडौं ” [ १, ४, २५ ] इत्येतेषु विधिषु अतिस्त्रिशब्दो मुनिश स्त्रियमतिक्रान्त इति विग्रहे-" प्रात्यवपरिनिरादयो." [ ३, ४, ४७] इति तत्पुरुषसमासे " ऐकायें " [ ३, २, ८ ] इति विभक्तिलोपे “ प्रथमोक्तं प्राक् " [३, १, १४८ ] इति अतिशब्दस्य प्रागनिपाते " गोश्चान्ते हस्वो० " [२, ४, ] इति हस्वे 'अतिस्त्रि' शब्दो भवति ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy