________________
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
कन्या चासौ पतिः अधिपाच-इति विग्रहे कन्यापतिशब्दस्य स्त्रीलिङ्गे एवं रूपाणि, तत्र ( उपर्युक्तवत् ) तिस्रः प्रकृतयः, यथा-'कन्यापति, कन्या. पत्नी, कन्यापती' इति, आद्यायाः रूपसाधनिका ‘मति' (१७७ ) वदपरयोर्वक्ष्यमाण 'नदी' ( २२५ ) वदवसेया ॥ (१८६) इकारान्तो नित्यबहुवचनान्तः ४'कति' शब्दः।
प्र. द्वि० कति । तृ० कतिभिः ।
च० ५० कतिभ्यः । ५० कतीनाम् । स० कतिषु । __ " नन्ता सङ्ख्याडतियुष्मदस्मश्च स्युरलिङ्गकाः" इति लिङ्गानुशासनवचनाद् अलिङ्गकोऽयं शब्दः, लिङ्गत्रयेषु सम इत्यर्थः ॥
साधनिका-जस्शस्परे " इत्यतु सङ्ख्यावत् " [ ., ., ३९ ] इति डत्यन्तस्य कतिशब्दस्य सङ्ख्यावस्वे सति “इतिष्णः सङ्ख्याया लुप्" [१, ४, ५४ ] इति जस्शसोलृपि “कति' २ इति ॥ नन्वंत्र लुप्तजसः स्थानिवद्भावेन ". जस्येदोत् " [२, ४, २२ ] इति एवं कथं नेति चेत् ? न, “ लुप्यवृल्लेनत् " [७, ४, ११२ ] इति लुप्तजसः स्थानिवद्भावप्रतिषेधात्, अर्थात् लुन्भूतजनिमित्तकं पूर्वस्य इकारस्य एवरूपं कार्य न स्यादित्यर्थः ॥
अग्रे 'मुनि' (१७५) वत्साध्यम् ॥ एवं परमाश्च ते कति ‘परमकति' प्रभृतयः ।।
x किम्शब्दात् डतिप्रत्यये सति " डित्यन्त्यस्वरादेः" [२, १, ११४] इत्यन्त्यस्वरादेरिमो लुकि कतिशब्दनिष्पत्तिः ॥