SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ [ थीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] १३५ नात्र इनो लाक्षणिकत्वात्तन्न भवति किन्तु “ नि दीर्घः " [१, ४, ८५] इत्यनेनैव दीर्घत्वे जाते " रवर्णा० " [ २, ३, ६३ ] इति नस्य णस्वे च सति 'वारीणि' २ इति । लाक्षणिकस्य अनित्यत्वात् केचित् "इन्हन्पूषा." [१, ४, ८७] इति सूत्रेण दीर्वमपि कुर्वन्ति ॥ वारि--टा-उसि-उस-ओस्Eि=" अनाम्स्वरे नोऽन्तः " [., ४, ६४ ] इति नोऽन्तो भवति, तदनु नस्य णत्वे 'वारिणा, वारिणे, वारिणः २, वारिणोः २, वारिणि' इति ॥ वारि--आम् अत्र नागमाभावात् "हस्वापश्च " [१, ४, ३२] इत्यामो नामि . सति " दी| नाम्य" [१, ४, ४७ ] इति दीर्घत्वे 'वारीणान्' इति ॥ मुपि " नाम्यन्त० " [ २, ३, १५ ] इति सस्य षत्वे 'चारिषु' ॥ सम्बो. धने सौ " नामिनो लुग वा " १, ४, ६१ ] इति सेलुकि तस्य "स्थानीवाऽवर्णविधौ" [७, ४, १०९ 1 इति आसझपरिभाषया "हस्वस्य गुणः" [ ३, ४, ४१ ] इति *स्थानिवद्भावे सति एकारे (गुणे) जाते 'हे वारे' पक्षे " अनतो लुप् " ! १, ४, ५९ ] इति सेलुपि ह वारि' । नन्वत्र सेलुगः स्थानिवद्भावेन भाग्यमिति चेत् ? न, "लुप्यरवृल्लेनत्" [७, ४; ११२] इति लुप्तस्य सेः स्थानिवद्भावप्रतिषेधात् ॥ (१७९) इकारान्तो विशेषणवाचकः 'शुचि' शब्दः । तत्र पुंसि वि० एकव० द्विव० ___ प्र० शुचिः - द्वि० - शुचिम् शुचीन् .एवं पुल्लिङ्गे 'मुनि' (१७७ ) शब्द्वत् सर्वाणि रूपाणि तत्साधनिका च ज्ञेया ॥ बहुव० शुचयः शुची * स्थानिनि सति यत् कार्य स्यात्, तत् कार्य तदादेशेऽपि स्यादिति स्थानिवद्भावभावार्थः ॥ .
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy