SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ] ९३३ एवम् -बुद्धि, वृद्धि, कीर्ति, कान्ति, कृति, तुष्टि, पुष्टि, ऋद्धि, रुचि, श्रेणि, पङ्क्ति, श्रुति, स्मृति-प्रभृतयः । .. एवं पुन:-भूमि, अङ्गुलि, धूलि, आलि, धमनि, दार्वे, श्रोणि, राजि, यावलि, यष्टि, शारि, सरणि, अशनि, अरणि, शकृत्करि, आत्मभरि, कपि, अहि, तारि, मुनि, अञ्चति, अङ्कति अंहति, शकटि, शस्त्रि, रजनि, धरणि, रात्रिइति क्त्यर्थभिन्नेभ्योऽष्टाविंशतः शब्देभ्यः " xइतोऽक्त्यर्थात् ” [ २, ४, ३२] इति सूत्रेण ङीर्विकल्पेन भवति; तेन भूमी, भूमिः- इत्येवं रीत्याऽष्टाविंशतेः शब्दानां प्रकृतिद्वयम् । यदा डीस्तंदा वक्ष्यमाण 'नदी' (२२५) शब्दवद्रूपाणि तत् साधनिका च स्यात् । यभावे तु 'मति' वद्रूपाणि बोध्यानि ॥ साधनिकेयम्-शसि " शसोऽता सश्च नः पुंसि " [.. ४, ४९] इति इकारस्य दीर्घत्वेऽपि स्त्रीत्वात् शसः सस्य नो न स्यादिति 'मतीः' ॥ टापरे तु “इवर्णादे." [१, २, २१] इति इस्थाने यत्वे 'मत्या' । डेङसि. ङस्ङिपरे तु " स्त्रिया ङितां वा दैदास्दास्दाम् [१, ४, २८ ] इति (Dङसिङसङिप्रत्ययाः 'ङित्' वचनेन व्यपदिश्यन्ते इति) द्विवचनानामनु. क्रमेण दै-दाम-दाम-दाम् - इत्येवंरूपा आदेशा भवन्ति तत्राऽपि दकारः सर्वत्र इत् । तथा च ङिताम् दितः ऐ-आस्-आस्-आम् स्युः, तदनु "इवर्णा" [१, २, २१] इति इस्थाने यत्वे सति 'मत्यै', (सस्य रुत्वे विसर्गे च) 'मत्याः' २, 'मत्याम् ॥ पक्षान्तररूपसाधनिकाऽवशिष्टा च साधनिका 'मुनि' (१७५) वज्ज्ञेया । x नन्वत्र क्त्यर्थप्रत्ययान्तस्य वर्जनात् क्तिप्रत्ययान्ताभ्यां पद्धतिशक्तिशब्दा. ..भ्यां कथं ङीत्वविकल्प इति चेदुच्यते-पद्धतिशब्दात् “पद्धतेः" [२, ४, ३३] इति सूत्रेण, शक्तिशब्दाच्च “ शक्तेः शस्त्रे " [२, ४, ३४ ] इति सूत्रेण च .., डीविकल्पः, तेन 'पद्धती पद्धति; शक्ती शक्तिः॥ [शस्त्रादन्यस्मिन्नर्थे को न भवति, तेन तत्र 'शक्ति' इत्येकैव प्रकृतिः ] । अन्ये तु-अचति-अङ्कति-संहति-शकटि-शस्त्रि-शारि-तारि-अहि-कपि
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy