________________
[ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं प्रकरणम् ]
१३१
किञ्च "
99
इत्योक्त्यर्थात् " [२, ४, ३२] इति खियां ङीर्वा स्यात्, तेन सुनिशब्दस्य स्त्रियां द्वे प्रकृती, यथा-' - 'मुनि, मुनी' इति । भाद्याया वक्ष्यमाण 'मति' (१७७) शब्दवदपरायाश्च वक्ष्यमाण 'नदी' (२२५) शब्दवपाणि बोध्यानि ॥ साधनिका - मुनि+सि ( स् = "सो रु: " [२, १, ७२ ] इति सकारस्य रु: (र), "रः पदान्ते विसर्गस्तयो: " [ १, ३, ५३ ] इति रस्य विसर्गे च 'मुनिः ' ॥ मुनि + औ = "इदुतोऽखेरीदूत्" [ १, ४, २१] इति इकारौकारस्थाने ईकारे 'मुनी' २ ॥ मुनि + जस् (अस् ) = "जस्येदोत्" [ १, ४, २२ ] इति इकारस्य एकारः, तस्य "एदैतोऽयाय् ” [ १, २, २३] इति अयादेशे, सकारस्य रुत्वे विसर्गे च 'मुनयः' ॥ मुनि + अम् = 'समानादमोऽतः " [ १४, ४६ ] इति अकारस्य लुकि 'मुनिम्' ॥ मुनिशस् (अस् ) = " शसोडता सश्च नः पुंसि ” [ १, ४, ४९ ] इति इकाराऽकारस्थाने ईत्वे सस्य नत्वे च 'मुनीन्' ॥ मुनि+टा ( आ ) = " टः पुंसि ना [ १, ४, २४ ] इति टास्थाने 'ना' इत्यादेशे 'मुनिना' ॥ मुनि + के (ए) = "ङित्यदिति ” [१ , ४, २३ ] इति इकारस्य एकारः, तस्य च 'अय्' इत्यादेशे 'मुनये' ॥ मुनि + ङसि ( अ ), ङ (अम् ) = "ङित्यदिति" [ १, ४, २३ ] इति इस्थाने एकारादेशे, “एदोदुभ्यां ङसिङसोरः [ १, ४, ३५ ] इति ङसिङस्स्थाने रेफादेशे, तस्य च विसर्गे जाते 'मुनेः' २ || मुनि +ओ = " इवर्णादेरस्वे स्वरे यवरलम् [१, २, २१] इति इकारस्य यकारे, सस्य रुवे विसर्गे च सति 'मुन्योः ' २ ॥ मुनि + आम् = " ह्रस्वापश्च [ १, ४, ३२ ] इति आमस्थाने 'नाम्' इत्यादेशे " दीर्घो नाम्बतिसृ०" [ १, ४, ४७ ] इति इकारस्य दीर्घत्वे च ' मुनीनाम् ॥ मुनि+ङि (इ)="ङिडौं” [ १, ४, २५ ] इति ङिस्थाने डौ (औ) भवति, तदनु 'व्यपदेशिवदेकस्मिन्' इति न्यायबलात् " डिययस्वरादेः " [ २, १, ११४ ] इति इकारस्य लुकि 'मुनौ ' ॥ मुनि + सुप (सु) = ' ' नाम्यन्तस्था ० ' [ २, ३, १५ ] इति सस्य षत्वे 'मुनिषु' ॥ सम्बोधनैकवचने 'मुनि+सि' = " ह्रस्वस्य गुणः [ १, ४, ४१ ] इति सिना सह इकारस्य गुणे जाते 'हे मुने' ॥ अत्र आसन्नपरिभाषया इस्थाने एकाररूपो गुणो भवति ॥ सम्बोधनद्विवचनबहुवचनन्तु प्रथमावत् साध्यम् ॥
99
99
""
99
ܕܕ