SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-आकारान्तं प्रकरणम् ] (१६७ ) आवन्तः स्त्रीलिङ्गः 'नासिका' शब्दः । वि० एकव० द्विव० बहुव० प्र० नासिका नासिके नासिकाः द्वि० नासिकाम् नसः, नासिकाः . .. तृ० नसा, नासिकया; नोभ्याम् , नासिकाभ्याम् नोभिः नासिकाभिः च० नसे, नासिकायै ' नासिकाय; " " नोभ्यः, नासिकाभ्यः प० नसः, नासिकायाः; ..., प. " , नसोः, नासिकयोः; नसाम् , नासिकानाम् स० नसि, नासिकायाम् ,, , नथ्सु, नत्सुनासिकासु सं हे नासिके हे नासिके हे नासिकाः साधनिका-शसादौ स्यादौ " दन्तपादनासिका० " [२, १, १०१] इति 'नस्' इत्यादेशो वा भवति । भ्यामि भिसि भ्यसि च परे नसादेशे सति, “ नामसिदयव्यञ्जने " [१, १, २१ ] इति पदसंज्ञायां सत्यां "सो रु: " [२, १, ७२ ] इति सस्य रुत्वम् , तदनु " घोषवति" [१, ३, २१ ] इति रुत्वस्य उत्वे, 'न+उ' इति जाते " अवर्णस्येवर्णादिनैदोदरल" [१, २, ६ ] इति नकारस्थाऽकारेण सह उकारस्य ओकारादेशे-नोभ्याम् , नोभिः, नोभ्यः-पक्षान्तररूपसाधनिका दयावत् ॥ __ सुपि-नसादेशे सति " धुटस्तृतीयः " [ २, १, ७६ ] इति सूत्रेण (आसन्नपरिभाषया) सस्य दत्वे " अघोषे प्रथमोऽशिटः " [१, ३, ५०] इति दस्य तकारादेशे 'नत्सु' इति जाते " शिट्याद्यस्य द्वितीयो वा" [१, ३, ५९] इति तस्य विकल्पेन थत्वे 'नथ्सु' नत्सु पक्षे नासिकासु ॥ अवशिष्टा साधनिका 'दया' (१६५) वदवसेया स्वधिया ॥ - ४ अपरे तु--'नासिकासु, नस्सु' इतीच्छन्ति ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy