________________
[श्रीस्याद्यन्तरत्नाकरे-आकारान्तं प्रकरणम् ]
१२३
साधनिका-" मासनिशा." [२, १, १०० ] इति शसादौ स्यादौ 'निश्' इति लुगन्तादेशो विकल्पेन भवति ॥ भ्यामि " धुटस्तृतीयः " [२, १, ७६] इति सूत्रेण शस्थाने तृतीयप्राप्ती "आसनः" [७. ४, १२० इति ( परिभाषासूत्रबलेन ) जत्वे x निभ्याम् ३ ' इति, एवं निभिः, निज्भ्यः २ ।
सुपि-निश्' इत्यादेशे “ सस्य शषौ " [ १, ३, ६१ ] इति सुप्सम्बन्धिसकारस्य शत्वे, “ धुटस्तृतीयः " [२, १, ७६ ] इति 'निश्' घटकशस्य ( आसन्नपरिभाषया) जत्वे, " अघोषे प्रथमोऽशिटः " [१, ३, ५०] इति जस्य (चत्वे ) प्रथमे-'निच्शु' इति जाते “ प्रथमादधुटि शश्छ: " [१, ३, ४] इति शस्य छत्वे निच्छु, छत्वविकल्पपक्षे निशु, पक्षे निशासु॥ ननु जत्वे सति 'निज+सु' इत्यवस्थायाम् " चजः कगम् " [ २, ३, ८६ ] इति गत्वेन भवितव्यम् ! एवं च सति सुपि गत्वे, तस्य कत्वे सस्य षत्वे च 'निक्षु' इति रूपेण भाव्यमिति चेन्न, गत्वं प्रति "धुटस्तृतीयः" इति सूत्रविहितजत्वस्याऽसिद्धत्त्वादिति । नच चत्वेऽपि असिद्धत्वमिति वाच्यम् ? असदधिकारस्य परत्वस्याधिकारविहितत्वप्रतिबद्धत्वेन चत्वविधायकस्योभयाभावात् ॥
___x “ अत्र-(“ मासनिशा० " [२, १, १०० ] इत्यस्मिन्सूत्रे ) निशशब्दे सत्यपि निशाशब्दग्रहणं 'निज्भ्याम्' इत्यस्य सिद्ध्यर्थम्, निश्शब्दस्य हि भ्यामि 'निड्भ्याम्' इत्येव भवति । किबन्तत्वाद्धातुत्वे 'यजसृज'-इत्यादिना षत्वप्राः " इति लघुन्यासकाराः ॥ इदमत्र हृदयम्-निशापर्यायस्य आचारक्तिबन्तनिश्शब्दस्य धातुत्वात् " यजसृजमृजराजभ्राजभ्रस्जवश्वपरिव्राजः शः षः" [ २, ३, ८७ ] " इति सूत्रेण यजादिधातुसाहचर्यात् शकारस्यापि 'धातोः सम्बन्धिन एव ग्रहणेन शस्य षत्वम्, ततो " धुटस्तृतीयः" इति डत्वे " निड्भ्याम् " इतिरूपसिद्धिः; प्रकृतस्य तु निशाशब्दस्य 'निश्' इत्यादेशरूपत्वेन धातुस्वाभाभात् षत्वप्राप्तिरेव नास्तीति 'निजभ्याम् ' इति रूपं भवतीति विशेषः ।