________________
[ श्रीस्याद्यन्तरत्नाकरे-आकारान्तं प्रकरणम् ] १२१ इत्याकाराऽकारयोः स्थाने आन्वे, ® सस्य रुत्वे विसर्गे च 'दयाः' ॥ दया+टा (आ)="टौस्येत्" [१, ४, १९] इति पूर्वाकारस्थाने एत्वे, तस्य "एदैतोऽयाय" [१, २, २३ ] इति अयादेशे च 'दयया' ॥ दया+3-ङसि-उस-ङि= " आपो डितां यै-यास-यास-याम् " [ १, ४, १७ ] इति क्रमेण यैयास-यास-याम् अ इत्यादेशेषु 'दयाय, दयायाः २, दयायाम्' इति ॥ दया+ ओस्=" टौस्येत् " [ १, ४, १९ ] इति आकारस्य एत्वे, तस्य " एदैतो. ऽयाय " [१, २, २३] इति अयादेशे, सस्य रुत्वे विसर्गे च दययोः २ ॥ दया+आम्=" ह्रस्वापश्च" [३, ४, ३२] इति आमो नामादेशे, (x पर्जन्यवल्लक्षणप्रवृत्ति' रिति न्यायबलात्) "दी? नाम्य० " [ १, ४, ४७ ] इति दीर्घत्वे 'दयानाम् ॥ सम्बोधने 'दया+सि'="एदापः” [१, ४, ४२ ] इति आकारस्य सिना सह एत्वे 'हे दये,' सम्बोधनद्विवचनेऽपि "औता" [१,४,२०] इति आकारौकारस्थाने एत्वे 'हे दये' इति ॥ शेषा सुगमैव ॥ ____एवं पुन:-अजा, एडका, अश्वा, चटका, मूषिका, कोकिला इत्येभ्यः षड्भ्यः शब्देभ्यः “ जातेरयान्तनित्यस्त्रीशूद्रात् ” [ २, ४, ५४ ] इति सूत्रेण प्राप्तस्य जातिलक्षणङीप्रत्ययस्यापवादरुपः "अजादेः" [२, ४, १६] इति सूत्रेणाऽऽप् प्रत्ययो भवति । बाला, होडा, पाका, वत्सा, मन्दा, विलाता, कन्या, मध्या, मुग्धा, इत्येतेषां वयोवाचकानां नवानां शब्दानामजादिपाठात् " वयस्यनन्त्ये " [२, ४, २१ ] इत्यनेन वयसि विधीयमानङीप्रत्यस्यापवादरूप आप् प्रत्ययो जायते । विलाताशब्दमन्ये अजादौ न पठन्ति, तेन विलातीत्यपि बोध्यं-तद्रूपाणि वक्ष्यमाण 'नदी' (२२५) वद्विशे. यानि । ज्येष्ठा, कनिष्ठा, मध्यमा-इति शब्दत्रयेषु "धवाद्योगादपालकान्तात्"
___ * शससम्बन्धिनः सस्य नत्वं न भवति, नत्वस्य पुसि विधानात् , तथा चात्र स्त्रीत्वात् सस्य रुत्वं विसर्गश्च भवतीति ॥
5 'डेङसिङस्डि' इति चतस्रो विभक्तयो 'डित्' पदेन उच्यन्ते । x पर्जन्योः मेघः । लक्षणं सूत्रम् ॥