SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ [ श्रीस्याद्यन्तरत्नाकरे-आकारान्तं प्रकरणम् ] स्त्रीलिङ्गे तुविश्वपाशब्दः स्त्रियां द्विविधः सम्भवति, आकारान्त आबन्तश्चेति; तत्र विश्वं पातीति " मन्वन्क्वनिविच्क्वचित् ” [ ५, १, १४७ ] इति विप्रत्यये आकारान्तः, “आतो डोऽह्वावामः " [ ५, १, ७६ ] इति डे "डित्यत्यस्वरादेः " [ २, १, ११४ ] इति धातोराकारस्य लुकि “ आत् " [२, ४, १८] इत्यापि च भावन्तः । तत्र आकारान्तस्य पुंवद्रूपाणि, भाबन्तस्य तु वक्ष्यमाण 'दया' ( १६५ ) शब्दवद्वपाणि ज्ञेयानि । एवं तीर्थपादिष्वपि बोध्यम् । नपुंसकलिङ्गे तु - विच्प्रत्ययान्तस्य विश्वपाशब्दस्य दीर्घान्तत्वात् "क्लीबे" [२. ४, ९७] इति हस्वत्वं विधेयम् ; डप्रत्ययान्तस्य विश्वपशब्दस्य तु न, हस्वान्तस्वात् । द्विविधस्यापि विश्वपशब्दस्य रूपाणि 'दर्शन' (१५६) शब्दवज्ज्ञेयानि । एवं तीर्थपप्रभृतिष्वपि । एवं पुनः-उदधिका, अग्रेगा, विकषा, गोषा, अब्जजा, गोपा, पा, वा, क्त्वा, टा, भा-प्रभृतयः । तत्र उदधिकादयः पञ्च संज्ञायामपि प्रवर्तन्ते । यदुक्तम् - "अग्रेगा उदधिकाश्च विकषाश्च तथा गोषाः । श्रियं ददातु राजेन्द्र ! अब्जजासहिता इमे ॥१॥" अग्रेगा: इन्द्रः । उदधिकाः विष्णुः । विकषाः शम्भुः । गोषाः रविः । भब्जजाः ब्रह्मा ॥ केचन वैयाकरणाः :क्त्वा-टा' प्रत्ययावाबन्तस्त्रीलिङ्गी मन्यन्ते, तन्मते च वक्ष्यमाण 'दया' (१६५) शब्दवदनयो रूपाणि वाच्यानि ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy