________________
११० [श्रोस्याद्यन्तरत्नाकरे-अकारान्तनपुंसकलिकाः सप्त शब्दाः
- भ्यसि " एद् बहुस्भोलि " [३, ४, ४] इति भ्यसि परे अकारस्य एत्वे, सो रुः " [२, १, ७२ ] इति सस्य रुत्वे ( अत्र-उ-इत् ) " : पदान्ते विसर्गस्तयोः” (१, ३, ५३] इति रस्य विसर्गे सति 'दर्शनेभ्यः' २॥ - सौ " डेङस्योर्यातौ " [ ३, ४, ६ ] इति इसिस्थाने 'आत्' इत्यादेशे " समानानां तेन दीर्घः " [ .. २, . ] इति द्वयोः स्थाने दोर्घत्वे 'दर्शनात्' इति जाते " धुटस्तृतीयः ” [ २, ५, ७६ ] इति तस्य दत्वे " विरामे वा " [ १, ३, ५१ ] इति दस्य वैकल्पिकतत्वे 'दर्शनात् , दर्शनाद् , इति द्वे रूपे भवतः ॥ . . ऊसि " टाङसोरिनस्यौ " [१, ४, ५ ] इति डस: स्यादेशे सति 'दर्शनस्य' इति ॥ __ओसि " एद् बहुस्मोसि " [१, ४, ४] इति ओसि परे अस्य एत्वे " एदैतोऽयाय " [ १, २, २३ ] इत्येकारस्य अयादेशे सति सस्य रुत्वे विसर्गे च दर्शनयोः २ ॥ - आमि "हस्त्रापश्च" [१, ४, ३२] इत्यामो नामादेशे सति “ दीघों 'नाम्यतिसूचतसूत्रः" [१, ४, ४७] इत्यकारस्य दीर्घत्वे जाते दर्शनानाम्' इति॥
ङौ "अवर्णस्ये." [१, २, ६] इत्यकारस्य इकारेण सह एत्वे 'दर्शने'। - सुपि “ एद् बहुस्भोसि" [ १, ४, ४ ] इति अस्य एन्चे सति " नाम्यन्तःस्था " [२, ३, १५ ] इति सस्य षत्वे 'दर्शनेषु' इति ॥
, सम्बोधने तु-" अतः स्यमोऽम् " [१. ४, ५७ ] इति सेरमादेशे सति " अदेत: स्यमोलक " [१, ४, ४४] इत्यामन्त्र्यवृत्तरदन्तानाम्नः . परस्यामो लुकि 'हे दर्शनः इति ॥ . . . एवम्-अकारान्त पुंल्लिङ्गशब्दानामपि तृतीयाया आरभ्य सप्तमीपर्यन्ता साधनिका समैव, अवशिष्टा तु सुगमा स्वधिया ज्ञेया ॥