________________
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तनपुंसकलिङ्गाः सप्त शब्दाः] २०९
साधनिकेयम्-'दर्शन+सि' इति स्थिते "अतः स्यमोऽम्" [३,४,५७] इति सिस्थाने 'अम्' इत्यादेशे सति “ समानादमोऽतः ” [ १, ४, ४६ ] इत्यमोऽकारस्य लुकि 'दर्शनम्' इति रूपं भवति ॥
'दर्शन+औ' इति स्थिते " औरी: " [१, ४, ५६ ] इति औस्थाने 'ई' भवति, तदनु “ अवर्णस्येवर्णादिनैदोदरल" १, २, ६ ] इत्यकारस्य ईकारेण सह एत्वे जाते 'दर्शने' २ इति ॥
'दर्शनxजस्' इति स्थिते " नपुंसकस्य शिः " [१, ४, ८५ ] इति जसः शिर्भवति, तदनु ' स्वराच्छौ :' [ १, ४, ६५ ] इति शौ परे नेऽन्ते "नि दीर्घः ” [१, ४, ८५] इति शेषे घुटि परे यो नस्तस्मिन्परे [अकारस्य] स्वरस्य दीर्घत्वे सति 'दर्शनानि' ॥
'शि' इत्यत्र “ अप्रयोगोत् " [१, १, ३७ ] इति सूत्रेण शकार हत् (संज्ञक:) स्यात् । एति अपगच्छतीति इत्। एवं सर्वत्राऽपि 'इत्' पदेन ज्ञेयम् ।
'दर्शनxटा' इति स्थिते " टाङसोरिनस्यौ " [१, ४, ५ ] इति टास्थाने इनादेशे " अवर्णस्ये० " [१, २, ६ ] इति अस्य इना सह एत्वे 'दर्शनैः' ॥
भ्यामि "भत आः स्यादौ जस्भ्याम्ये" [१, ४, १] इत्यकारस्य आस्वे 'दर्शनाभ्याम्' ३ ॥
भिसि “ भिस ऐस् " [ १, ४, २] इति भिस ऐस्त्वे " ऐदौत्सध्यक्षरैः [ १, २, १२ ] इत्यकारस्य ऐकारेण सह ऐत्वे सस्य रुत्वे विसर्ग च 'दर्शनैः' ॥
यि " डेङस्योर्यातौ [ १, ४, ६ ] इति डेस्थाने यकारादेशे, तस्य स्थानिवस्वेन विभक्तित्वे " अत आः स्यादौ जस्भ्याम्ये " [१, ४, १] इति अकारस्य आत्वे 'दर्शनाय' ॥