________________
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] १०५ (१५०) अकारान्तस्त्रिलिङ्गकः 'भरित' शब्दः । तत्र पुंसि
वि० एकव० द्विव० बहुव०
प्र. भरितः भरितौ भरिताः 'एवमवशिष्टानि सर्वाणि रूपाणि 'जिन' (७४) शब्दवत् ॥
स्त्रियां तु"श्येतैतहरितभरित." | २, ४, ३६ ] इति वर्णऽर्थे कीर्वास्यात्तद्योगे च तस्य नस्तदनु नस्य णत्वे कृते 'भरिणी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवत्; ड्यभावे तु आपि 'भरिता' इति, रूपाणि वक्ष्यमाण 'दया' (१६५) शब्दवत्परिभावनीयानि ॥
क्लीबे तुवक्ष्यमाण 'दर्शन' (१५६) शब्दवद्रूपाणि भवन्ति ॥ (१५१) अकारान्तस्त्रिलिङ्गकः 'पलित' शब्दः । तत्र पुंल्लिङ्ग
वि० एकव० द्विव० वहुव०
प्र० पलितः पलितो. पलिताः 'एवं शेषाणि रूपाणि 'जिन' (७४) शब्दवज्ज्ञेयानि ॥
स्त्रियां तु-- " क्नः पलितासितात् " [ २, ४, ३७ ] इति पलितशब्दात् डीप्र. त्ययो विकल्पेन भवति तत्सन्नियोगे च तकारस्य क्नादेशो भवति, तेन 'पलिक्नी' 'पलिता' इति प्रकृतियुगलं जायते; एतद्रूपाणि अनुक्रमेण वक्ष्यमाण 'नदी' (२२५) शब्दवत् 'दया' (१६५) शब्दवच ज्ञेयानि ॥
'अत्र "हृश्यारुहिशोणिपलिभ्यः" [२१०] इति उगादिसूत्रेण 'पल गतौ' इत्वत 'इत' प्रत्यये सति 'पलित' शब्दसिद्धिः । पलितः श्वेतकेशः ॥