________________
१०४ [ श्रोस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ]
(१४८ ) अकारान्तस्त्रिलिङ्गकः 'एत' शब्दः । तत्र पुंल्लिङ्गे--
वि० एकव०वि० बहुव०
प्र० एतः एतौ एताः एवमवशिष्टानि रूपाणि 'जिन' (७४) शब्दवज्ज्ञेयानि ॥
. स्त्रीलिङ्क तु-- ।.. "श्येतैत." [२, ४, ३६ ] इति वर्णवाचकादेतशब्दाद् ङीवां स्यात्, डीयोगे च तस्य नः स्यात् , तेन 'एनी, एता' इति प्रकृतियुग्मम् । तत्र 'एनी' इत्यस्य वक्ष्यमाण 'नदी' [२२५] शब्दवत्, ‘एता' इत्यस्य वक्ष्यमाण 'दया' [१६५] शब्दवढ़पाणि बोध्यानि ॥
क्लीबे तु-- वक्ष्यमाण 'दर्शन' ( १५६ ) शब्दवदवसेयानि रूपाणि ॥ (१४९) अकारान्तस्त्रिलिङ्गकः 'हरित' शब्दः । तत्र पुंसि-- वि० एकव० द्विव० बहुव० प्र०. हरितः हरितो हरिताः एवं शेषाणि रूपाणि 'जिन' [७४] शब्दवद्वोध्यानि ॥
स्त्रियां तु-- " श्येतैतहरित" [ २, ४, ३६ ] इति वर्णवाचकहरितशब्दात् कीर्वा भवति, . तद्योगे च तकारस्य नकारादेशो भवति, तदनु " रघुवर्णात्० " [२, ३, ६३ ] इति नस्य णत्वे 'हरिणी' इति, रूपाणि वक्ष्यमाण 'नदी' . ( २२५) शब्दवदवसेयानि । ङयभावे तु “ आत् " [२, ४, १८] इत्यापि 'हरिता' इति । रूपाणि च वक्ष्यमाण 'दया' (१६५) शब्दवद्वाच्यानि ॥
...... क्लीबेतुवक्ष्यमाण 'दर्शन' [१५६] शब्दवद्वपाणि बोध्यानि ॥
१ अत्र 'हंग् हरणे' इत्यतः "हश्यारुहि०" (२१८) इति उणादिसूत्रत . 'इत' प्रत्यये सति हरितशब्दनिष्पत्तिः । हरितो वर्णः ॥