________________
[श्रीस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] , १०३.. (१४६ ) अकारान्तस्त्रिलिङ्गकः ‘चण्ड' शब्दः । तत्र पुंल्लिङ्गे
वि० एकव० . द्विव० . बहुव० . प्रचण्डः चण्डौ । चण्डा . एवमवशिष्टानि रूपागि 'जिन' ( ७४) शब्दवज्ज्ञेयानि ॥
स्त्रीलिङ्ग तु-- ." नवा शोणादे: ": [२, ४, 31] इति वा डीस्तेन 'चण्डी चण्डा' इमि द्वे प्रकृती, आद्याया वक्ष्यमाण 'नदी' (२२५) शब्दवदपरायाश्च वक्ष्यमाण. . 'दया' [१६५] शब्दवद्रपाणि बोध्यानि ॥ . .
क्लीबे तु-वक्ष्यमाण 'दर्शन' (१५६) शब्दबद्रुपाण्यवसेयानि। . (१४७) अकारान्तस्त्रिलिङ्गकः 'श्येते. शब्दः । तत्र धुल्लिङ्ग
वि० . एकव० द्विव० - बहुव०
प्र. श्येतः श्येतो.. । श्येताः, . एवं शेषाणि रूपाणि 'जिन' (७४) शब्दवद्भावनीयानि ॥ - स्त्रीलिङ्ग तु-
. " श्येतैतहरितभरतरोहितावर्णात्तो नश्च" [.२, ४, ३६..] इति वर्णवात्रिभ्यः श्येतादिशब्देभ्यो डीस्यिात्तत्सन्नियोगे तकारस्य नकारादेशश्च भवति, तेन श्येतः शुक्लवर्णस्तद्वती स्त्री 'श्येनी, श्येता' इति प्रकृतिद्वयम् । वर्ण. वाचकादन्यस्मिन्नर्थे तु 'श्येता इति एकैव प्रकृतिः ।
श्येनी' इत्यस्य वक्ष्यमाण 'नदी' (२२५) शब्दवत् , 'श्येता' इत्यस्य च वक्ष्यमाण ‘दया' (१६५) शब्दवद्रूपाणि ज्ञेयानि ॥ .
नपुंसकलिङ्ग तुवक्ष्यमाण 'दर्शन' (१५६) शब्दवद्रूपाणि वाच्यानि ॥
१ अत्र इङ् गतौ' इत्यतः "हमारुहिशोणिपलिभ्य इतः [२१०] इति उगादिमूत्रेण 'इत' प्रत्यये सति श्येतशब्दोत्पत्तिः ॥.
' श्येतो वर्णो मृगो मत्स्यः श्येनश्च ॥