SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] १०१ - स्त्रियां तु - द्वाववयवावस्या 'द्वयी' त्रयोऽवयवा अस्याः 'त्रयी' इति । एतद्रूपाणि वक्ष्यमाण 'नदी' ( २२५ ) शब्दवद्बोध्यानि । यीशब्दस्य तु षष्ठीबहुवचने 'त्रयीणाम्' इति णत्वविशेषः । अत्राऽयट्यत्ययान्तत्वेन टित्वात् “अणजे येकण्नस्नटिताम् ” [ २, ४, २० ] इति डीप्रत्यये सति 'द्वयी' 'त्रयी' इति ॥ नपुंसकलिङ्गे तु.द्वाववयवावस्य द्वयं तपः । त्रयोऽवयवा अस्य त्रयं जगत् । द्वयशब्दस्य रूपाणि तु वक्ष्यमाण 'दर्शन' ( १५६ ) शब्दवत् , अयशब्दस्य तु वक्ष्यमाण 'चारित्र' (१५७ ) शब्दवद्रूपाणि बोध्यानि ॥ (१४३ ) अकारान्तस्त्रिलिङ्गको बहुवचनान्तः 'कतिपय' शब्दः । तत्र पुंसि-- वि१ बहुवचनम् प्र० कतिपये, कतिपयाः कतिपयान् तृ० । कतिपयैः कतिपयेभ्यः कतिपयानाम् स... कतिपयेषु सं० हे कतिपये, हे कतिपयाः अत्र " नेमार्धप्रथमचरमतयायाल्पकतिपयस्य वा" [१, ४, १० ] इति जस्प्रत्ययस्य 'इ'. इत्यादेशो विकल्पेन भवति ॥ . ..स्त्रियां तु .... वक्ष्यमाण 'दया' (१६५) शब्दस्य बहुवचनवद्पाणि भवन्ति ॥: नपुंसकलिङ्ग तु-- वक्ष्यमाण 'दर्शन' (१५६) शब्दस्य बहुवचनवद्रूपाणि वाच्यानि ॥ ष.
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy