________________
१०० [श्रीस्याद्यन्तरत्नाकर-अकारान्तं त्रिलिङ्गकं प्रकरणम् ] - यथा-एकतयोऽसंयमः । द्वितयो द्वयो वा जीवः । त्रितयः त्रयो वा मोक्षमार्गः । चतुष्टयो धर्मः। पञ्चतयो यमः । सप्ततयो नयः । दशतयः श्रमणधर्मः । द्वादशतयः सिद्धान्त इत्यादयः ॥
स्त्रियां तु-- एकतयी, द्वितयो, त्रितयी, चतुष्टयी, पञ्चतपी. सप्तायी, दशतयी, द्वादशतयी च । एतेषां रूपागि वक्ष्यमाग 'नदी' (२२५) शब्दबद्धोध्यानि !
नपुंसकलिङ्ग तु-- - एकतयम् , द्वितयम् , नितयम् , चतुष्टयम् , पञ्चतयम् , सप्ततयम् दशतयम् , द्वादशतयम् , इत्यादीनां रूपाणि वक्ष्यमाण 'दर्शन' (. १५६ ) शब्दवज्ज्ञेयानि ॥ (१४२) अकारान्तस्त्रिलिङ्गकोऽयट्प्रत्ययान्तः 'द्वय' शब्दः ।
वि० एकव० द्विव० बहुव० प्र० द्वयः, द्वयौ द्वैये, द्वयाः
सं० हे द्वय, हे , हे ,, हे ,, शेषाणि सर्वाण्यपि रूपाण्यस्य 'जिन' (७४) शब्दवज्ज्ञेयानि ॥
अत्र "द्वित्रिभ्यामयख्वा' [७, १,१५२] इति सूत्रेण प्रथमान्ताभ्यामवयव. वाचिभ्यां द्वित्रिशब्दाभ्यां षष्ट्यर्थे अवयविनि 'अयट्' प्रत्ययो विकल्पेन भवति ।
तेन द्वौ अवयवौ यस्य स 'द्वयः' [ द्वितयो वा ] ।
एवम्-त्रयशउदो बोध्यः । यथा-त्रयो (ज्ञानदर्शनचारित्ररूपाः) अवयवा यस्य स: 'त्रयः' (बित्यो वा मोक्षमार्गः) ॥
१ अन्नापि नेमा० [ १, ४, १० ] इति जस स्थाने इर्वा स्यात् ।