________________
परशक्त्यभिप्रसादात्मकेन किञ्चिदुपयोगयोग्येन । विपुलेनापि यतिवृषा लाभेन मदं न गच्छन्ति ॥ ९० ॥
शक्तिश्च अभिप्रसादश्च शक्त्यभिप्रसादौ परस्य सम्बन्धिनौ शक्त्यभिप्रसादौ तौ तथा तावेवात्मा-स्वरूपं यस्य स तथा तेन, लाभेन वक्ष्यमाणेनेति योगः । तत्र परो-दाता तस्य दानान्तरायक्षयोपशमजनिता शक्तिः अभिप्रसादस्तु तस्यैव दातुर्यद्यभिप्रसन्नं चेतो भवति साधून् प्रति यदुत मुक्तिसाधका एते तत एतेभ्यो दत्तं बहुफलं भवतीति । तथा किञ्चिदुपयोगयोग्येन-स्तोककालमुपयोगसाधकेन, न पुनराजीवितान्तं, विपुलेनापि-विस्तीर्णेनापि यतिवृषाः-साधुप्रधानाः लाभेन मदं न गच्छन्ति ॥ ९० ॥
ગાથાર્થ– (દાનાંતરાય કર્મનો ક્ષયોપશમ હોય (અંતરાય ન હોય) અને સાધુને આપવાની ભાવના હોય તો જ ગૃહસ્થ દાન કરી શકે છે. આથી) દાતાની દાનાંતરાય કર્મનાં ક્ષયોપશમથી ઉત્પન્ન થયેલી શક્તિથી અને આ સાધુઓ મુક્તિના સાધક છે, એમને આપેલું બહુ ફળવાળું થાય છે એવા દાતાના અભિપ્રસાદથીચિત્ત પ્રસન્નતાથી મળેલ અને અલ્પકાળ સુધી જ ઉપયોગમાં આવનારી વસ્તુનો લાભ ગમે તેટલો અધિક હોય તો પણ उत्तम साधुमो भ६ ४२ता नथी. (८०)
बुद्धिमदत्यागमाहग्रहणोद्ग्राहणनवकृतिविचारणार्थावधारणाद्येषु । बुद्ध्यङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥ ९१ ॥ पूर्वपुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा सांप्रतपुरुषाः, कथं स्वबुद्ध्या मदं यान्ति ? ॥ ९२ ॥ कथं-केन प्रकारेण यान्ति । के ? सांप्रतपुरुषाः । कं ? मदं । कया ? स्वबुद्ध्या । किं कृत्वा ? श्रुत्वा । किं तत् ? ज्ञानातिशयस्य सागरानन्त्यं । केषां ? पूर्वपुरुषसिंहानां । केषु विषयेषु-बुद्ध्यङ्गविधिविकल्पेषु, किंविधेषु ? अनन्तपर्यायवृद्धेष्विति क्रियाकारकघटना । तत्र ग्रहणम्-उपाध्यायादिभिरुक्तस्य सूत्रादेरुपादानं, उग्राहणं-प्रमाणोपन्यसनं नवकृतिः-नूतनकाव्यकरणं विचारणं
પ્રશમરતિ • ૬૯