________________
क्वथितं कृतानेकसुगन्धिसंस्कारं वा । तथा हृद्यं-हृदयेष्टं । कुत इत्याहपित्तादितेन्द्रियत्वात्-पित्तव्याप्तकरणत्वात् वितथमतिः-विपरीतबुद्धिः मन्यतेजानाति कटुकम्-अमृष्टं मधुरमपि सदिति ॥ ७८ ॥ હવે આ જ અર્થનું દષ્ટાંતથી સમર્થન કરે છે
ગાથાર્થ– જેવી રીતે ઇન્દ્રિયો પિત્તથી વ્યાપ્ત હોવાથી વિપરીત બુદ્ધિવાળો કોઈ મધથી યુક્ત સાકર નાખીને ઉકાળેલા (અથવા અનેક સુગંધી પદાર્થો નાખીને સંસ્કારિત કરેલા) અને હૃદયને પ્રિય દૂધને કડવું જાણે છે. (૭૮)
अथ दृष्टान्तेन दाटन्तिकमर्थं समीकुर्वन्नार्याद्वितयमाहतद्वन्निश्चयमधुरमनुकम्पया सद्भिरभिहितं पथ्यम् । तथ्यमवमन्यमाना, रागद्वेषोदयोवृताः ॥ ७९ ॥ तद्वत्-तथा हितमप्यर्थं न पश्यन्तीति सम्बन्धः । कीदृशमर्थम् ? निश्चयमधुरं-परिणामसुन्दरं, तथा अभिहितं-प्रतिपादितं ढौकितमित्यर्थः ।
कैः ? सद्भिः-सत्पुरुषैः । कया ? अनुकम्पया-कृपया । तथा पथ्यं-योग्यं, तथा तथ्यं-सत्यं । किं कुर्वाणास्ते ? अवमन्यमाना-अनाद्रियमाणाः । कीदृशाः ? रागद्वेषोदयेनोवृत्ताः-स्वच्छन्दचारिण इति ॥ ७९ ॥ जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतमदान्धाः । क्लीबाः परत्र चेह च, हितमप्यर्थं न पश्यन्ति ॥ ८० ॥
पुनः कीदृशाः ? जात्याद्यष्टमदस्थानान्धाः, तत्र जातिर्मातृसमुत्था कुलं पितृसमुद्भवं रूपं-सुशरीराकृतिः बलं-शरीरप्राणः लाभः-प्रार्थितार्थप्राप्तिः बुद्धिः-औत्पादिकीप्रभृतिमतिः, सा चैवम्-'उप्पत्तिया वेणइया, कम्मया परिणामिया। बुद्धी चउव्विहा वुत्ता, पंचमा नोवलब्भए ॥ १ ॥' इति । वाल्लभ्यकं-प्रियत्वं श्रुतं-आगमस्तेषां तान्येव वा मदो-गर्वस्तेनान्धाहिताहितवस्तु-विचारादर्शनाल्लोचनविकलास्ते तथा । तथा क्लीबा-अधृष्टाः । कस्मिन्नित्याह-परत्र च-परभवे इह च-अत्र जन्मनि हितमप्यर्थं न पश्यन्तिउपकारकं सर्वज्ञवागपं नावलोकयन्तीति ॥ ८० ॥
॥ इति धारणार्थाधिकारद्वयम् ॥
પ્રશમરતિ • ૬૩