________________
रागद्वेषाभ्यां परिगतो व्याप्त इति समासः, मिथ्यात्वोपहता सा चासौ कलुषा च-मलिना सा तथा तया । कया एवंविधया ? दृष्ट्या-बोधरूपया करणभूतया । किमित्याह-पञ्चास्रवाः-प्राणातिपातादयः, तैः करणभूतैर्मलः-कर्मबन्धस्तेन बहुलो-व्याप्तः स तथा, तथा स चासावार्तरौद्रयोस्तीव्राभिसन्धानश्चगाढचिन्तनः स तथेति समास इति ॥ २० ॥ कार्याकार्यविनिश्चयः, संक्लेशविशुद्धिलक्षणैर्मूढः । आहारभयपरिग्रहमैथुनसंज्ञाकलिग्रस्तः ॥ २१ ॥
कार्य-जीवरक्षादिकम् अकार्य-जीववधादिकम् तयोविनिश्चयो-निर्णयः स तथा, स च संक्लेशः-कालुष्यम्, विशुद्धिः-नैर्मल्यम्, तयोः क्लिष्टचित्ततानिर्मलचित्ततारूपयोर्लक्षणानि-परिज्ञानानि तथा तानि चेति समासः, तैः करणभूतैर्मूढो-मुग्धः, तथा आहारभयपरिग्रहमैथुनसंज्ञाः प्रसिद्धरूपास्ता एव कलयः-कलहाः कलिहेतुत्वात् तैर्ग्रस्तः-आघ्रात इति समास इति ॥ २१ ।। क्लिष्टाष्टकर्मबन्धनबद्धनिकाचितगुरुर्गतिशतेषु ।। जन्ममरणैरजस्त्रं, बहुविधपरिवर्तनाभ्रान्तः ॥ २२ ॥ क्लिष्टानि च तानि-क्रूराण्यष्टकर्माणि च प्रसिद्धानि तानि तथा, तान्येव बन्धनं-नियन्त्रणम्, तेन बद्धो-नियन्त्रितः, स चासौ निकाचितश्च-अतिनियन्त्रितः स तथा, अत एव गुरु:-भाराक्रान्तः, ततः कर्मधारयः । यद्वा क्लिष्टाष्टकर्मणां उपलक्षणत्वेन बन्धनबद्धनिधत्तनिकाचितानि कृतद्वन्द्वानीति चत्वारि पदानि दृश्यानि तैर्गुरुः स तथा । अत्र लोहमयः सूचीकलापो दृष्टान्तः, यथा बन्धनं-स्पृष्टं दवरकबद्धसूचीनां मीलनमात्रमिव गुरुकर्मणां जीवप्रदेशैः सह योगमात्रमल्पप्रयाससाध्यम् १, तथा बद्धं-सूचीकलापस्य खपरिकया(?दवरिकया)-ऽन्योऽन्यबन्धनमिव तेषां तैः सह २, तथा (नि)धत्तं-ध्मातसूचीनां परस्परसंलुलितत्वमिव, शेषं तथैव ३, तथा निकाचितं-वह्नितप्तकुट्टितसूचीनां निनष्टविभागत्वमिव, शेषं तथैव ४, केष्वेवं बन्धो ? गतिशतेषु, कैः करणभूतैः ? जन्ममरणैरजस्रम्-अनवरतम् बहुविधपरिवर्तनाभ्रान्तः-अनेकप्रकारघोलनापर्यटित इति ॥ २२ ॥
પ્રશમરતિ • ૧૮