SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ વિતર્ક=આ પ્રમાણે જ આ અર્થ ઘટી શકે છે ઇત્યાદિ સ્વરૂપ તર્ક. (દશ वै.नि.गा. २२४) (२०3) उत्पादविगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि । सदसद्वा भवतीत्यन्यथाऽर्पितानर्पितविशेषात् ॥ २०४ ॥ , तथा अपरं लक्षणमाह-उत्पादः - प्रादुर्भावः तेन स्वेन रूपेण वस्तुनां घटपादीनां धर्माधर्मादीनां च, पत्रादिनीलतावत्, विगमो - विनाशः प्रलयः तेषामेवं, पत्रादिसाटवत्, नित्यत्वं - स्थिरत्वं कालत्रयेऽप्यविनाशित्वं एतानि कृतद्वन्द्वानि विवक्षावशप्रापितभेदानि तत्त्वतो मनागप्यभिन्नानि समुदितानि लक्षणं-स्वरूपं यस्य तत्तथा । यदेवंविधं त्रिविधत्वमुक्तं तदस्ति - विद्यते सर्वमपि, तथाहि-घटस्य घटरूपेणोत्पादः कुशूलादिरूपेण विनाशो मृद्रूपेण च सदैव नित्यत्वं, तथा पुंसः पुंस्त्वेनोत्पादः प्राक्तनरूपेण विनाशो जीवरूपेण ध्रौव्यमिति । न चोत्पादे असति विनाशो न च विनाशे वा समुत्पादः, नहि घटाद्यनुत्पादे कुशूलादिविनाशो, न च कुशूलाद्यविनाशे घटाद्युत्पादः, न च तौ मृत्त्वं विना, निर्मूलत्वात् न च साऽपि तौ विना, पर्यायत्वाद्, गन्धादिविशेषरहितेन्दीवरवत् । तदेवं त्रितयं परस्परापेक्षं सत्त्वलक्षणमिति । अन्यथा-त्रितयं यदि नाभ्युपगम्यते किंत्वेकस्य द्वयोर्वा सत्त्वलक्षणत्वेऽभ्युपगम्यमाने यत्सत् तदसद्भवति, असद्वा-अविद्यमानं सद्भवति । यच्च सतोऽसद्भवनं असतो वा सद्भवनं तन्महालीकतां महाकर्मबन्धं च तस्य वादिन आवेदयतीत्युपेक्षणीयमिति । ननु च सैद्धान्तिका अपि क्वचिदुत्पादं क्वचिद्विनाशं क्वचिन्नित्यत्वं प्रतिपादयन्ति, तथाहि-‘जिणपवयणउप्पत्ती' इत्यादि 'सव्वट्ठाणाइं असासयाई' इत्यादि 'इयं दुवालसंगी न कयाई नासी' इत्यादि, अतस्तेषामप्ययं दोषः प्रसजतीत्येव, उच्यते, नायं तेषां दोषः, कुतः ? अर्पितानर्पितविशेषात् अर्पितं विशेषितं अनर्पितम् अविशेषितं तद्रूपो विशेषस्ततः, तमादायेत्यर्थः, इदमत्र तात्पर्यं - अर्पितं विशेषितं जिनप्रवचनं उत्पन्नमिति प्रवचनोत्पादोऽर्पितः, अनर्पितम् अविशेषितं प्राक्तनजिनप्रणीतं तदतीतं, अर्थतस्तु ध्रुवं घटे कुशूलविगमत्ववत् इति वचनमुच्चार्य विगमध्रौव्यद्वयं नार्पितमिति । न पुनस्तेषामयमाशयः यथोत्पाद एवास्ति सर्वथा પ્રશમરતિ ૦ ૧૬૨
SR No.023402
Book TitlePrashamrati Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages272
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy