________________
विगमध्रौव्यशून्यः, ननु कथमेकस्मिन् उक्तेऽन्यद्वयसद्भावो भवति ?, भवत्येव, कथं ?, यथा हि पुरुषस्य भ्रातृपुत्रपितृव्याद्यनेकरूपसंभवेऽपि तत्कार्यकरणक्षमत्वेन केनापि भ्रातेत्युक्ते न पुनः पुत्रादित्वं तत्र नास्तीति, एवमत्रापि एवंविधविवक्षासद्भावात्, नान्यवादिनामिव जैनानां दोषः प्रादुर्भवति । केचन विद्वांसः सप्तभङ्गीसूचनद्वारेण व्याख्यान्तीमामााँ, सा च व्याख्यैवम्-उत्पादःउत्पत्तिः विगमो-विनाशो नित्यत्वं-ध्रौव्यमेतेषां द्वन्द्वस्तानि लक्षणं यस्य तत्तथा, यदेतल्लक्षणत्रयोपेतं तदस्ति सर्वमपि, अङ्गुलिवत्, यथा मूर्तत्वेनाङ्गुलिरवस्थिता ध्रुवा ऋजुत्वेन विनष्टा वक्रत्वेनोत्पन्नेति, एवं यदुत्पादादित्रयोपेतं तत्सर्वमस्ति, यन्नास्ति तदुत्पादादित्रितयवदपि न भवति, खरविषाणवत्, अतो विकल्पद्वयमुक्तं-स्यादस्ति १ स्यान्नास्ति २, सदसद्वा भवतीति तृतीयविकल्पः, स्यादस्ति च नास्ति चेति ३, अन्यथा-अन्येन प्रकारेणापितानर्पितविशेषादिति चत्वारो विकल्पाः सूचिताः, स्यादवक्तव्यं ४ स्यादस्ति चावक्तव्यश्च ५ स्यान्नास्ति चावक्तव्यश्च ६ स्यादस्ति च नास्ति चावक्तव्यश्चेति ७, तत्राद्यभङ्गद्वयं भावितार्थमेव । तृतीयस्तु अस्ति च नास्ति चेति, एकस्य घटादे व्यस्य देशो ग्रीवादिः सद्भावपर्यायेण आदिष्टो वृत्तबुध्नत्वेन परगतपर्यायेण च तद्वस्तु अस्ति च नास्ति चेति भावना कार्या ३ इतश्चतुर्थो विकल्पः स्यादवक्तव्य इति, सकलमेवाखण्डितं तद्वस्तु अर्थान्तरभूतैः पटादिपर्यायैर्निजैश्चोर्ध्वकुण्डलौष्ठायतवृत्तग्रीवादिभिर्युपगद्-अभिन्नकाले समादिष्टं न अस्तीति वक्तुं शक्यते न तु नास्तीति वक्तुं पार्यते, युगपदादेशद्वयप्राप्ती वचनविशेषातीतत्वादेवावक्तव्यमिति ४ इतोऽस्ति चावक्तव्यश्चेति पञ्चमो विकल्पः, तस्यैव घटादेर्वस्तुन एको देशः सद्भावपर्यायैरादिष्टोऽपरो देशः स्वपर्यायैः परपर्यायैश्च युगपदादिष्टः तद् द्रव्यमस्ति चावक्तव्यं च ५ अथ पष्ठो विकल्पः-स्यान्नास्ति चावक्तव्यश्च, तस्यैव घटादेव्यस्य एकदेशः परपर्यायैरादिष्टोऽपरो देशः स्वपर्यायैः परपर्यायैर्यु(श्च युगपदादिष्टस्तद् द्रव्यं नास्ति चावक्तव्यं च भवति ६ अथ सप्तमो विकल्पो भाव्यते-तदेव घटादि द्रव्यमेकस्मिन् देशे स्वपर्यायैरादिष्टं अन्यत्र देशे परपर्यायैरादिष्टं अपरत्र देशे स्वपर्यायैः परपर्यायैश्च युगपदादिष्टं स्यादस्ति च नास्ति चावक्तव्यं चेति ७ ।
પ્રશમરતિ • ૧૬૩