________________
પ્રત્યેક અધ્યયનમાં કયા વિષયનું પ્રતિપાદન છે તેનો નિર્દેશ કરવામાં આવ્યો છે. ૧૧૪-૧૧૫ એ બે ગાથાઓમાં પ્રથમ શ્રુતસ્કંધના નવ અધ્યયનોના વિષયોનો, ૧૧૬મી ગાથામાં બીજા શ્રુતસ્કંધની પ્રથમ ચૂલિકાના સાત અધ્યયનોના વિષયોનો, ૧૧૭મી ગાથામાં બાકીની ત્રણ ચૂલિકાઓના વિષયોનો નિર્દેશ કરવામાં આવ્યો છે.
एवं सामान्यतः प्रथमाङ्गार्थमाश्रित्य पञ्चधाऽऽचार उक्तः, अथ तस्यैवाध्ययनान्याश्रित्य बहुविधमाचारं बिभणिषुस्तावत्तस्य प्रथम श्रुतस्कन्धे नवाध्ययनानि सन्तीति तान्याश्रित्य नवविधत्वमार्याद्वयेनाह—
षड्जीवकाययतना, लौकिकसन्तानगौरवत्यागः । शीतोष्णादिपरीषहविजयः सम्यक्त्वमविकम्प्यम् ॥ ११४ ॥
षड्जीवकाययतना कार्येति शेषः । साधुनेति सर्वत्र प्रक्रम इति । शस्त्रपरिज्ञाख्ये प्रथमेऽध्ययन उक्तम् । तथा लोके- गृहस्थजने जातो लौकिकः स चासौ सन्तानश्च पितृपितामहपरम्परा तस्य गौरवम् - अभ्युत्थानादि तस्य त्यागः - परिहारः स तथा कार्य इति शेषः, इति लोकविजयाख्ये द्वितीयेऽध्ययने उक्तम् । तथा शीतोष्णादिपरीषहः, आदिशब्दस्य प्रकारवचनार्थत्वात् द्वाविंशतिपरीषहा ग्राह्यास्तेषां विजयः - सहनेनाभिभवनं यः सः तथा, शीतोष्णाख्ये तृतीयेऽध्ययने भणितमिदमिति । तथा सम्यक्त्वमविकम्प्यम्अविचलं धार्यं इति चतुर्थे सम्यक्त्वाख्येऽध्ययने उक्तं इति ॥ ११४ ॥
संसारादुद्वेगः, क्षपणोपायश्च कर्मणां निपुणः । वैयावृत्त्योद्योगस्तपोविधिर्योषितां त्यागः ॥ ११५ ॥
संसारादुद्वेगः कार्य इति लोकविजयाख्ये द्वितीयनाम्ना आवन्तीनामकेऽध्ययने प्रतिपादितं । तथा क्षपणोपायश्च, केषां ? कर्मणां निपुणः सूक्ष्मोऽभिधीयत इति धूताख्ये षष्ठेऽध्ययने उक्तम् तथा वैयावृत्त्योद्योगः - गुर्वादीनां भक्तानयनादिक्रियायामुद्यम इति महापरिज्ञाख्ये सप्तमेऽध्ययने भणितं । तपोविधिरिति मोक्षाख्येऽष्टमे उक्तं । योषितां त्यागः - स्त्रीपरिहार इत्युपधान श्रुताख्ये नवमेऽध्ययने उक्तं इति । इति प्रथम श्रुतस्कन्धः ॥ ११५ ॥
પ્રશમરતિ • ૮૯