________________
પંચસૂત્ર
ચોથું સૂત્ર
૪. ચોથું પ્રવજ્યા પરિપાલના સૂત્ર साम्प्रतं चतुर्थसूत्रव्याख्याऽऽरभ्यते । अस्य चायमभिसम्बन्धः- अनन्तरसूत्रे साधुधर्मे परिभाविते यत् कर्तव्यं तदुक्तम् । तच्च विधिना प्रव्रज्या ग्राह्येत्येतत् । अस्य चर्यामभिधातुमाह
હવે ચોથા સૂત્રની વ્યાખ્યાનો પ્રારંભ કરાય છે. આનો પૂર્વસૂત્રની સાથે સંબંધ આ છે- અનંતર (કત્રીજા) સૂત્રમાં સાધુધર્મ પરિભાવિત થયે છતે જે કરવું જોઇએ તે કહ્યું, અર્થાત્ વિધિથી દીક્ષા લેવી જોઇએ એમ કહ્યું. આથી હવે દીક્ષિત થયેલાની ચર્યાને કહેવા માટે કહે છે
૧. વકાર્યનો અસાધક ઉપાય પરમાર્થથી ઉપાય નથી. स एवमभिपव्वइए समाणे, सुविहिभावओ किरिआफलेण जुज्जइ, विसुद्धचरणे महासत्ते न विवज्जयमेइ, एअअभावेऽभिप्पेअसिद्धी उवायपवित्तिओ, नाविवज्जत्योणुवाए पयट्टइ, उवाओ अ उवेअसाहगो निअमेण, तस्स तत्तच्चाओ, अण्णहा अइप्पसंगाओ, निच्छयमयमेअं।
॥१॥ ___स प्रस्तुतो मुमुक्षुः, एवमुक्तेन विधिनाऽभिप्रवजितः सन् सुविधिभावतः कारणात् क्रियाफलेन युज्यते, सम्यक्क्रियात्वादधिकृतक्रियायाः । स एव विशेष्यते- विशुद्धचरणो महासत्त्वः, यत एवंभूतः, अतो न विपर्ययमेति मिथ्याज्ञानरूपम् । एतदभावे विपर्ययाभावेऽभिप्रेतसिद्धिः सामान्येनैव । कुतः ? इत्याह-उपायप्रवृत्तेः । इयमेव कुतः ? इत्याह नाविपर्यस्तोऽनुपाये प्रवर्तते । इयमेवाविपर्यस्तस्याविपर्यस्तता यदुतोपाये प्रवृत्तिः, अन्यथा तस्मिन्नेव विपर्ययः । एवमपि किम् ? इत्याह-उपायश्चोपेयसाधको नियमेन, कारणं कार्याव्यभिचारीत्यर्थः । अतज्जननस्वभावस्य तत्कारणत्वायोगादतिप्रसङ्गात् । एतदेवाह- तत्स्वतत्त्वत्याग एवोपायस्वतत्त्वत्याग एवान्यथा स्वमुपेयमसाधयतः । कुतः ? इत्याह-अतिप्रसङ्गात् । तदसाधकत्वाविशेषेणानुपायस्याप्युपायत्वप्रसङ्गात् । न चैवं व्यवहारोच्छेद आशङ्कनीय इत्याह- निश्चयमतमेतदिति सूक्ष्मबुद्धिगम्यम् ॥