________________
પંચસૂત્ર
૭૬
ત્રીજું સૂત્ર
૬. ગ્લાન ઔષધનું દૃષ્ટાંત एतदेवाह— ते दृष्टांतने ४ ग्रंथकार हे छे
से जहा - नामए केइ पुरिसे, कहंचि कंतारगए अम्मापिइसमेए, तप्पडिबद्धे वच्चिज्जा, तेसिं तत्थ निअमघाई पुरिसमित्तासज्झे संभवओसहे महायंके सिआ, तत्थ से पुरिसे तप्पडिबंधाओ एवमालोचिअ ' न भवंति एए निअमओ ओसहंतरेण ओसहभावे अ संसओ, कालसहाणि अ एआणि तहा संठविअ संठविअ तदोसहनिमित्तं सवित्तिनिमित्तं च चयमाणे साहू, एस चाए अचाए, अचाए चेव चाए, फलमित्य पहाणं बुहाणं, धीरा अदंसिणो । स ते ओसहसंपायणेण जीवाविज्जा, संभवाओ पुरिसोचिअमेअ । ॥६॥
1
,
तद्यथा- 'नाम कश्चित्पुरुषो विवक्षितः कथञ्चित्कान्तारगतः सन् मातापितृसमेतः, भार्याद्युपलक्षणमेतत्, तत्प्रतिबद्धो व्रजेत् । तयोर्मातापित्रोस्तत्र कान्तारे नियमघाती पुरुषमात्रासाध्यः संभवदौषधः महातङ्कः स्यात् । आतङ्कः सद्योघाती रोग: । तत्रासौ पुरुषः तत्प्रतिबन्धान्मातापितृप्रतिबन्धेन एवमालोच्य न भवत एतौ मातापितरौ नियमत औषधमन्तरेणौषधं विना । औषधभावे च संशयः कदाचिद्भवतोऽपि कालसहौ चैतौ मातापितरौ । तथा तेन वृत्त्याच्छादनादिना प्रकारेण संस्थाप्य संस्थाप्य तदौषधनिमित्तं, तयोर्मातापित्रोरौषधार्थं, स्ववृत्तिनिमित्तं च आत्मवृत्त्यर्थं च त्यजन् साधुः शोभनः । कथं ? इत्याह- एष त्यागोऽत्यागः, संयोगफलत्वात् । अत्याग एव त्यागो, वियोगफलत्वात् । यदि नामैवं ततः किम् ? इत्याह- फलमत्र प्रधानं बुधानां पण्डितानाम् । धीरा एतद्दर्शिन: निपुणबुद्ध्या फलदर्शिनः । सः पुरुषः तौ मातापितरौ औषधसंपादनेन जीवयेत् । संभवत्येतदत एवाह - संभवात्पुरुषोचितमेतद् यदुतेत्थं त्याग इति । १. नाम अव्यय छेखने वाड्यासंडारमां तेनो प्रयोग थयो छे.