________________
પંચસૂત્ર
७०
ત્રીજું સૂત્ર
फलं जीवितं, प्रशस्यत इति शेषः । २ तथा समुदायकृतानि कर्माणि, प्रक्रमाच्छुभानि, समुदायफलानीति । अनेन भूयोऽपि योगाक्षेपः । तथा चाह- ३ एवं सुदीर्घो वियोगः भवपरम्परया सर्वेषामस्माकमिति प्रक्रमः । ४ अन्यथैवमकरणे एकवृक्षनिवासिशकुनतुल्यमेतच्चेष्टितमिति शेषः । यथोक्तम्-“वासवृक्ष समागम्य, विगच्छन्ति यथाऽण्डजाः । नियतं विप्रयोगान्तस्तथा भूतसमागमः" । इत्यादि । एतदेव स्पष्टयन्नाह- ५ उद्दामो मृत्युः अनिवारितप्रसरः, प्रत्यासन्नश्वाल्पायुष्ट्वेन । ६ तथा दुर्लभं मनुजत्वं, भवाब्धाविति शेषः । अत एवाहसमुद्रपतितरत्नलाभतुल्यं, अतिदुरापमित्यर्थः । कुतः ? इत्याह- ७ अतिप्रभूता अन्ये भवाः पृथिवीकायादिसंबन्धिनः कायस्थित्या । यथोक्तम्-"अस्संखोसप्पिणि-सप्पिणीओ एगिन्दियाण उ चउण्हं । ता चेव उ अणंता, वणस्सतीए उ बोधव्वा" ॥१॥ एते च दुःखबहुला उत्कटासातवेदनीया मोहान्धकाराः तदुदयतीव्रतया, अकुशलानुबन्धिनः प्रकृत्याऽसच्चेष्टाहेतुत्वेन यत एवमत:- अयोग्याः शुद्धधर्मस्य चारित्रलक्षणस्य । ८ योग्यं चैतन्मनुजत्वम् । किविशिष्टम् ? इत्याह- पोतभूतं भवसमुद्रे, तदुत्तारकत्वेन । यत एवमतो युक्तं स्वकार्ये नियोक्तुं धर्मलक्षणे । कथं ? इत्याह- संवरस्थगितच्छिद्रं छिद्राणि प्राणातिपाताऽविरमणादीनि । तथा ज्ञानकर्णधारमभीक्ष्णं तदुपयोगतः । तपःपवनजवनं, अनशनाद्यासेवनतया । एवं युक्तं स्वकार्ये नियोक्तुम् । किं ? इत्यत आह- ९ क्षण एष दुर्लभः । क्षणः प्रस्तावः सर्वकार्योपमातीत एषः । कथं ? इत्याहसिद्धिसाधकधर्मसाधकत्वेन हेतुना, १० उपादेया चैषा जीवानां सिद्धिरेव । यन्नास्यां सिद्धौ जन्म प्रादुर्भावलक्षणम् । न जरा, वयोहानिलक्षणा । न मरणं, प्राणत्यागलक्षणम् । नेष्टवियोगः, तदभावात् । नानिष्टसंप्रयोगोऽत एव हेतोर्न क्षुद् बुभुक्षारूपा । न पिपासा, उदकेच्छारूपा । न चान्यः कश्चिद्दोषः शीतोष्णादिः । सर्वथाऽपरतन्त्रं जीवावस्थानं, अस्यां सिद्धाविति प्रक्रमः । अशुभरागादिरहितमेतदवस्थानम् । एतदेव विशेष्यते- शान्तं शिवमव्याबाधमिति । शान्तं शक्तितोऽपि क्रोधाद्यभावेन । शिवं सकलाऽशिवाऽभावतः । अव्याबाधं निष्क्रियत्वेनेति ॥
સૂત્ર-ટીકાર્થ– મહા સત્ત્વશાળી એવા તેના માતા-પિતા પ્રાયઃ તો પ્રતિબોધ પામેલા હોય. માતા-પિતા કર્મની વિચિત્રતાથી પ્રતિબોધન પામ્યા હોય તો પ્રતિબોધ