________________
८०
हैमनूतनलघुप्रक्रिया - मव्यस्थाः ।४।२।११३॥ धातोविहिते मकारादौ वकारादौ च प्रत्यये परे अत आकारादेशो भवति । अहं भवामि, आवां भवावः, वयं भवामः। यत्रान्ययुष्मदमस्मत्सु द्वयोस्त्रयाणां वा योगस्तत्र सर्वादिगणपाठापेक्षया परत्वमाश्रित्य परनिमित्तक एव पुरुषो बोध्यः । यथा-स च त्वं च-भवथः । स च त्वं च अहं च-भवामः । वं च अहं च-भवावेः॥
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थने ॥५॥४॥ २८॥ प्रत्ययार्थः कर्ता कर्म भावश्च । स विध्यादिविशिष्टश्चेतदा धातोः सप्तमी-पञ्चम्यौ प्रत्ययौ भवतः ॥
सप्तमी यात् याताम् युस्, यास् यातम् यात, याम् याव याम । ईत ईयाताम् ईरन् , ईथास् ईयाथाम् ईध्वम् , ईय ईवहि ईमहि ॥३॥३७॥ इमानि वचनानि सप्तमीसंज्ञकानि भवन्ति ॥
यः सप्तम्याः ।४।२।१२२॥ अकारात्परस्य सप्तम्या: सम्बन्धिनो याशब्दस्य इकारादेशो भवति । भवेत् , द् । भवेताम् ॥
१-एवं स चाहं च भवावः । २-विधिः क्रियायां प्रेरणा । निमन्त्रणम
प्रत्याख्येया प्रेरणा । आमन्त्रणं कामचागनुज्ञा । अधीष्टं सत्कारपूर्विका प्रेरणा, संप्रश्नः संप्रधारणा । प्रार्थनं याचा ।