________________
७९
हैमनूतनलघुप्रक्रिया न च समाप्ता क्रिया वर्तमानक्रिया। तदुपहितः कालो वर्त्तमानकालो वर्तमान इति चोच्यते ॥ .
.. वर्तमाना-तिव तस् अन्ति, सिव् थस थ-मिव वस् मस, ते आते अन्ते, से आथे ध्वे, ए वहे महे १३।३।६॥ इमानि वचनानि वर्तमानासंज्ञकानि भवन्ति । चकार इत्, वित्कार्यार्थः ॥
एताः शितः ।३।३।१०।। एता वर्तमानासप्तमीपश्चमीयस्तन्यः शितः शकासनुबन्धा झातन्याः । ततश्चैषु शिनिमित्तं कार्य भवति ।।
कतर्यनभ्यः शत् ।।४७१॥ अदादिवर्जिताद् धातोः कर्तरि विहित शिति शब् प्रत्ययो भवति । कारक काराक्तिौ । भू-सत्तायाम् । ततो भूधातोः कर्तरि प्रथमपुरुषै. कवचने तिवि अनुबन्धलोपे शिस्वाच्छब्यनुबन्धलो भूक ति इति स्थिते-- .. नामिनो गुणोऽक्ङिति ।४।३।१।। नाम्यन्तस्य धातोः किद्धिर्जिते प्रत्यये परे आसन्नों गुणो भवति । अवादेशः । स भवति, तौ भवतः, ते भवन्ति । त्वं भवसि, युवां भवथः, यूयं भवय ॥
१-लुगस्येत्यल्लुक ।