________________
हैमनूतनलघुप्रक्रिया
७७
॥ अथाख्यातप्रकरणम् ॥ तत्रादौ णिजाद्यन्तवर्जिताः शविकरणा रूढया भ्यादय इति ख्याता धातव उच्यन्ते । आख्यातपदेन त्यादिप्रत्ययास्तदन्ताश्च शब्दा उच्यन्ते । आख्यातप्रत्ययाश्च धातोर्भवन्ति ॥
क्रियार्थों धातुः ।३।३।३॥ क्रिया कृतिः। प्रवृत्तिः,. व्यापार इति यावत् । क्रिया एव अर्थों यस्य स शब्दो धातुसंज्ञको भवति । धातैवविविधाः-परस्मैपदिन आत्मनेपदिन उभयपदिनैश्च । तत्र--
नवाद्यानि शतृक्वसू च परस्मैपदम् ।३।३।१९॥ १-अत्र भ्वादिशब्देन धातुसामान्यस्य ग्रहणं दृश्यते न तु गणविशेषस्य । किन्तूक्तेषु भ्वादिरिति रूढिरिति भावः । २-कृतिर्गुणो न्यायनये नाति ध्येयम् । ३-अत्र वि० वि० प्रक्रिया धातुस्त्रिविधो गणजो नामजः सौत्रश्च । आद्यो नवधा । तथाहुः"अदादयः कानुबन्धा श्वानुबन्धा दिवादयः । स्वादयष्टानुबन्धाश्च तानुबन्धास्तनादयः ॥१॥ रुधादयः पानुबन्धा, यानुबन्धास्तनादयः । क्रयादयः शानुबन्धाश्च, णानुबन्धाश्चरादयः" ॥२॥ उक्तानुबन्धरहिता भ्वादयः । यत्र नामैव प्रत्ययसम्बन्धाद धातुत्वं याति स नामधातुः । सौत्राश्च कण्ड्वादयो दोलाप्रमुखाश्च । तन्नाभिनन्दन्ति बुधाः । भ्वादेर्नामिन इत्यादौ भ्वादिपदेन धातुसामान्यस्य ग्रहणात् । नाम्नश्च न धातुत्वं किन्तु प्रत्ययान्तस्येत्यपि द्रष्टव्यम् । ४-तथा चात्र कारिका-"डनुबन्ध इदनुबन्धः, कर्त्तर्यप्यात्मनेपदी. धातुः । ईगनुबन्धस्तुभयपदो, परस्मैपदी शेषः नाइति।। ॥१॥