________________
७६ ___winnarriwwwwwwwwwwwwwwwwwwwwwwwwwww
हैमनूतनलघुप्रक्रिया
चिद् विद्ः स्विद् उत बत इव तु नु यच्च कच्चन किमुत किल किंकिल किंस्वित् उदस्वित् आहोस्वित् अहह नहवै नवै नवा अन्यत् अन्यत्र शव शप् अथकिम् विषु पर पशु खलु यदिनाम, यदुत प्रत्युत, यदा, जातु, यदि यथाकथाच यथा तथा पुद अथ पुरा यावत् तावत् दिष्ट्या मर्या आम नाम स्म इतिह सह अमा समम् सत्रा साकम् सार्धम् ईम् सीम् कीम् आम् आस् इति अव अठ अड बाह्या अनुषक् खोस् अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ प्र परा अप सम् अनु अव निस् निर् दुस् दुर् आङ् नि वि प्रति परि उप अधि अपि मु उद् अति अभि इति चादयः । बहुवचनमाकृतिगणार्थम् ॥ __ क्त्वातुमम् ।१।१।३५।। क्त्वा तुम् अम् इत्येतत्प्रत्ययान्तं शब्दरूपमव्ययसंज्ञकं भवति । कृत्वा, हत्वा, प्रकृत्य, प्रहृत्य, कर्तुम्, हर्तुम्, यावज्जीवम्, स्वादुङ्कारम् ॥
गतिः ॥१॥१॥३६॥ गतिसंज्ञकाः शब्दा अव्ययसंज्ञका भवन्ति । अदाकृत्य ॥
__ अव्ययस्य ।३।२।७॥ अव्ययसम्बन्धिनः स्यादेलप भवति । स्वरस्ति । प्रातरस्ति, स्वः पश्य, प्रातः पश्य । एवमन्यत्रापि ॥
॥ इत्यव्ययप्रकरणम् ॥