________________
हैमनूतनलघुप्रक्रिया
॥ अथाऽव्ययानि ॥ अव्ययमित्यन्वर्थेषा संज्ञा । यत्र व्येति विकारं प्राप्नोति तदिति । तदुक्तम्-"सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम्"॥१॥ इति॥ "नन्ती संख्या डॅति युष्मदस्मच्च स्युरलिङ्गकाः। पैदं वाक्यमव्ययं चेत्यसंख्यं च तदबहुलमि"ति च ॥२॥
स्वरादयोऽव्ययम् ।११।३०॥ स्वरादयः शब्दाः अव्ययसंज्ञका भवन्ति। स्वर, अन्तर्, सनुतर्, पुनर् , प्रातर ५। सायम् नक्तम् अस्तम् दिवा दोषा, १० । ह्यम्, श्वस् कम् शम् योस् १५ । मयस् विहायसा रोदसी ओम् भूस् , २० । भुवम् स्वस्ति समया निकषा अन्तरा, २५ । पुरा बहिम् अवम् अथम् असाम्प्रतम्, ३० । अद्धा ऋतम् सत्यम् इद्धा मुधा, ३५ । मृषा वृथा मिथ्या मिथो मिथु, ४० । मिथस् मिथुस् मिथुनम् अनिशम् मुहुस् , ४५ । अभीक्ष्णम् मक्षु झटिति उच्चैस् नीचैस्, ५० । शनैस् अवश्यम् सामि १-अनुगतार्थमित्यर्थः । एवं च विवक्षितार्थाभावे नाऽव्ययसंज्ञेत्याशयः । २नकारान्ताः पञ्चन् प्रभृतयः संख्यावाचिनः । ३-डतिप्रत्ययान्ताः कतितति प्रभृतयः। ४-लिङ्गरहिताः । ५-परिनिष्ठितं 'देवः' इत्यादिपदम् । देवशब्दस्य हि लिङ्गसंख्यावाचिता, न तु 'देवः' इति विभक्त्यन्तस्य पुनः संख्यान्तरयोगः, तथा सति विभक्त्याद्यापत्तेरिति ध्येयम् । एवं वाक्येऽपि वोध्यम् । ६-चकारादलिङ्गमिति बोध्यम् । ७-तेन विभक्तिलुकि लिटू धुकू इत्यादेः परिनिष्ठितस्य लिङ्गसंख्यावाचित्वेऽपि न क्षतिः ।