SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया तन्न भवति, असति यत्तद् भवतीत्यर्थः। श्रमणाः ! युष्मान् रक्षतु धर्मः । श्रमणाः ! अस्मान् रक्षतु धर्मः ॥ पादाद्योः ।२।१।२८॥ नियतपरिमाणमात्राक्षरपिण्डः पादः । श्लोकतांश इत्यर्थः । पदात्परयोयुष्मदस्मदोर्यदुक्तं वमनसादि तत्पादस्यादिभूतयोर्न भवति । “वीरो विश्वेश्वरो देवो, युष्माकं कुलदेवता । स एव नाथो भगवानस्माकं पापनाशनः" ॥ १ ॥ पादाद्योरिति किम् ? पादमध्यादौ यथा स्यात्-"पान्तु वो देशनाकाले, जैनेन्द्रा दशनांशवः । भवकूपपतज्जमुजातोद्धरणरज्जवः” ॥१॥ इति ॥ ___चाहहवैवयोगे ।२।१।२९॥ च अह, ह वा एव इत्येभिर्योगे पदात्परयोयुष्मदस्मदोर्यदुक्तं वस्नसादि तम्न भवति । ज्ञानं युष्मांश्च रक्षतु । अस्मांश्च रक्षतु । ज्ञानं युष्मानह अस्मानह रक्षतु । ज्ञानं युष्मान् ह अस्मान् ह रक्षतु । ज्ञान युष्मान् वा अस्मान् वा रक्षतु । ज्ञानं युष्मानेव अस्मानेव रक्षतु । एवमन्यदप्युदाहार्यम् ॥ ॥ इति युष्मदस्मत्प्रक्रिया ॥ १-अत्र द्वितीयपादादिस्थत्वाद् वसादेशो न । २-चतुर्थपादादिस्थत्वान्नसादेशो न। प्रथम-तृतीयपादादिस्थयोस्तु युष्मदस्मदोः पदात् परत्वाभावादेव वस्नसादयो नेति ध्येयम् । ३-अत्र पादमध्यस्थस्य द्वितीयाबहुवचनान्तस्य युस्मदो वसादेशो भवति ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy